117b इति टचा भाव्यम् । तदिदं सर्वं शास्त्रशिष्टप्रयोगप्रतिकूलमिति शब्दहीनम् । नन्वनुप्रासादिः शब्दरसोऽत्र विद्यते काव्यगुणः । तन्नेदमेकान्तहेयमिति चेदाह— इत्येवं दुष्टानां शब्दानां न च रसोऽनुप्रासादिरपि जिज्ञासितावेव स्थितो ग्राह्यः । अश्रद्धाश्रयतया तस्या व्युपहतत्वात् । शुद्धायां हि भूमौ न्यस्तः पुष्पप्रकरः शोभते । यः पुनरपूतायां भुवि निक्षिप्यते कुसुमनिकरः स निष्फल एव । तथा शुद्धायां शब्दपद्धतौ रसः अनुप्रासादिः शोभते नान्यथा । यत्र पुनरयं रसो दर्शितः, तद् रसप्रयोगेऽपि शब्दहीनत्वात् हेयमिति ख्यापयितुम् । महाराजन् न जिज्ञासा नास्तीत्यासां गिरां रसः इत्यपि पाठः । तत्रासां गिरां रसो नास्तीति ईदृशी जिज्ञासा न विद्यते, हेयत्वादीदृशस्य रसस्येति व्याख्येयम् । शेषं समानमिति ॥

क्वचिदशब्दहीनेऽपि शब्दहीनभ्रान्तिरिति व्युत्पादयन्नाह—

दक्षिणाद्रेरुपसरन् मारुतश्चूतपादपान् ।
कुरुते ललिताधूतप्रवालाङ्कुरशोभिनः ॥ १५० ॥

दक्षिणाद्रेर्मलयपर्वतादुपसरन आगच्छन मारुतः चूतपादपान् सहकारतरून् ललितं सलीलमाधूतैराकम्पितैः प्रवालैरङ्कुरैः पल्लवोद्गमैः शोभन्ते इति ललिताधूतप्रवालाङ्कुरशोभिनः । स तत् कुरुते विधत्ते । अत्र किल दक्षिणाद्रेरुपसरणे भावात् पञ्चमी न युज्यते, अपायलक्षणत्वात् तस्याः । उपसरणापेक्षया त्वाधारेण व्याप्येन वा दक्षिणानिलेन भाव्यम् । ततश्च सप्तमी द्वितीया वा युज्यते । नैवं कृतम् । अतः शब्दहीनमेवंविधमिति कुधियो मन्यन्ते । न चैतदेवम् । उपसरणं हि तत आगमनमिति विश्लेषयोगाद् दक्षिणाद्रिमामृश्योपसर[त्ययमि]ति ल्यब्लोपलक्षणा पञ्चम्येव युज्यते ॥

तदेतन्मनसि