स्त्रीणां सङ्गी*तविधिमयमा*दित्यवंश्यो नरेन्द्रःपश्यत्यक्लि*ष्टरसमिह शि*ष्टैरमेत्यादि दुष्टम् ।
कार्याकार्या*ण्ययमविकला*न्यागमेनैव पश्यन् ।वश्यामुर्वीं *वहति नृप इ*त्यस्ति चैवं प्रयोगः ॥ १५३ ॥

शिष्टैरमा सह । संगीतविधिं प्रेक्षणकम् । अक्लिष्टा यथागमं प्रयुक्ता रसाः शृङ्गारवीरादयोऽस्मिन्निति अक्लिष्टरसं स्त्रीणां सम्बन्धिनम्, तत्प्रयुक्तत्वात् । अयं विवक्षितः कश्चिदादित्यवंश्यः सूर्यान्वयसम्भूतः । नरेन्द्रः पश्यतीह प्रस्तावे । इह वाचोयुक्तौ [वा] । अत्र मन्दाक्रान्तायां समुद्रर्तुलोकैः [४।६।७] यतिविधानम् ।265 तद्व्यतिक्रमात् इत्यादि ईदृशं दुष्टं हेयम् ॥ अत्रापवादमाह—कार्येत्यादि । कार्याणि त्रिवर्गानुबन्धीनि कर्माणि स्वस्वकार्याणि । तद्विपरीतानि [अकार्याणि] आगमेनैव उत्पत्यादिना तत्प्रतिपादकेन पश्यन् यथार्हमनुतिष्ठन् । वश्यां विधेयामुर्वीमवति रक्षति नृप इति, एवंविधप्रयोगः शिष्टानामस्ति । न च नास्त्येव । तस्मादीदृशः साधुरेव ॥