तदुदाहरन्नाह—

यामताश कृतायासा सा याता कृशता मया ।
रमणारकता तेऽस्तु स्तुतेताकरणामर ॥ ७४ ॥

कृशस्य भावः कृशता । कृतो जनित आयासः श्रमो ययेति कृतायासा । या कृशता दौर्बल्यम् । सा याता प्राप्ता मया अमता प्रतिकूलतां [गता] आशा, अर्थात्230 सुरतमनोरथो यस्येति हे अमताश मत्सङ्गमासहिष्णो ! हे रमण ! अकरणेनाकृतिमत्त्वेन अमर ! अकरणामर सत्यदेव ! यद्वा अकरणे अविहिते प्रमत्त ! अमर देव ! तव स्तुतम् । तदितः प्राप्तः हे स्तुतेत वर्णनेन प्राप्त ! ते तव अरकता गमनमेवास्तु । किमागमनेन, इयर्ति गच्छतीत्यरको [गन्ता] ततो भावप्रत्ययस्तल् विधीयते । समयमतिक्रम्यागतः कश्चित् प्रियः कयाचित्तु सरोषमित्थमधिक्षिप्यते । इदं पादप्रतिलोमयमकम् । प्रथमस्य तृतीयस्य च पादस्य [क्रमशः] प्रातिलोम्येन पाठे श्लोकनिष्पत्तिः ॥