230 सुरतमनोरथो यस्येति हे अमताश मत्सङ्गमासहिष्णो ! हे रमण ! अकरणेनाकृतिमत्त्वेन अमर ! अकरणामर सत्यदेव ! यद्वा अकरणे अविहिते प्रमत्त ! अमर देव ! तव स्तुतम् । तदितः प्राप्तः हे स्तुतेत वर्णनेन प्राप्त ! ते तव अरकता गमनमेवास्तु । किमागमनेन, इयर्ति गच्छतीत्यरको [गन्ता] ततो भावप्रत्ययस्तल् विधीयते । समयमतिक्रम्यागतः कश्चित् प्रियः कयाचित्तु सरोषमित्थमधिक्षिप्यते । इदं पादप्रतिलोमयमकम् । प्रथमस्य तृतीयस्य च पादस्य [क्रमशः] प्रातिलोम्येन पाठे श्लोकनिष्पत्तिः ॥

नादिनोऽमदनाधीः स्वा न मे काचन कामिता ।
तामिका न च कामेन स्वाधीना दमनोदिना ॥ ७५ ॥

नादो नाम तत्त्वविशेषः शैवसमयप्रसिद्धः स विद्यतेऽस्येति नादिनो मे मम स्वा स्वकीया धीः । न विद्यते मदनः कामोऽस्यामिति अमदना ततश्च स्वाधीना सदृशवर्तिनी भवतु । एवं किमतः ? ततश्च मे मम न काचन न काचित् कामिता विषयाभिलाषः । कामेन दमं नुदतीति तेन दमनोदिना प्रशमप्रत्यनीकेन हेतुना ते तदभावादेव तामिका न भवितुमर्हति । कामनिमित्तः सन्तापो नास्तीत्यर्थः । इदमर्धप्रतिलोमयमकम् । अत्रार्धान्तरमारभ्य प्रातिलोम्येन पाठे श्लोकनिष्पत्तिरिति ॥

यानमानयमाराविकशोनानजनासना ।
यामुदारशताधीनामायामायमनादि सा ॥ ७६ ॥

मानमवलेपं यातीति मानयः दृष्टः त्रैलोक्यं विजग्राह । मानयश्चासौ मारश्चेति मानयमारः । तमवितुं रक्षितुं साधनभावेन तत्सामर्थ्यानुग्रहात्, शीलं यस्या इति मानयमारावी । स चासौ कशा प्रतोदश्चेति मानयमाराविकशा या काचिद् भवेत् तस्या ऊना हीना असमाना या न भवति किं तु समानैव तद्वत् कामसाधनत्वात् । यदाह— आनेत्यादि । अन.........सत्यानाः कर्तर्यत् समर्था इन्द्रियजयादियोगात् । जनाः, तेषामसनं क्षेपोऽतितरां यत्रेति अनाजनासना । मुनीनामपि रागजननी अत एवोदाराणां महतां शते बहुत्वोपलक्षणम् । अधीना यस्मात् सेवनात् यामायाम जितवानस्मि । सा अनादि नदिता भणिता । नान्या । किम् ? आयम् आगमनम् । आगच्छति, आहुतेति यावत् । कश्चिदितिवृत्तमात्मनः कञ्चित् कथयति । आनुलोम्येन तावदयं श्लोकः ॥