231

प्रातिलोम्येनायमेवावर्तते—

सा दिनामयमायामा नाधीता शरदामुया ।
नासनाजनना शोकविरामाय न मानया ॥ ७७ ॥

सा काचिदभिमता स्त्री दिनमेवामयो विकारोऽत्यन्तरुक्षत्वात् दिनामयम् अधीता अधीगता प्राप्ता न न भवति किं तु अधीतैवात्यन्तसौकुमार्यात् । अत एवायः आगतः अनुभाव्यः आमः पीडा ययेति आयामा । केन ? अमुया प्रत्यक्षवर्तिन्या शरदा अतिदीप्रदिवाकरया हेतुना, अत एव च न जननमजननम् । आसनस्यावस्थानस्याजननमकरणं यया इति आसनाजनना सुखासिकामलभमाना शोकस्य त्वद्विरहसम्भवस्य विरामाय विनोदाय शोकाभिभवार्थं मानमहङ्कारं शोकमभिभवामि इत्येवं रूपं यातीति मानया भवति । त्वद्वियोगसम्भवं शोकमभिभवितुं न शक्नोति इत्यर्थः । श्लोकप्रतिलोमयमकम् ॥

॥ इति यमकचक्रम् ॥
वर्णानामेकरूपत्वं यद्येकान्तरमर्धयोः ।
गोमूत्रिकेति तत् प्राहुर्दुष्करं तद्विदो यथा ॥ ७८ ॥

अर्धयोः श्लोकसम्बन्धिनोरभिव्यक्त्यर्थः उपर्यधोभावेन लिखितयोः सम्बन्धिनां वर्णानां निरन्तराणामेकरूपत्वं सारूप्यं तेषामेव वर्णानां समुत्थानात् । एकैकमक्षरमन्तरं व्यवधानमस्मिन्नित्येकान्तरम् एकैकवर्णव्यवधानं यदि भवति निरन्तरपाठवदर्धयोरौत्तराधर्येण एकैकवर्णान्तरपाठे स एव श्लोको यदि