ईदृशमपि यदि श्रवणानुद्वेजनं तदा ग्राह्यमन्यथा हेयमिति पुनर्विशेषं दर्शयन्नाह-

तथापि कटु कर्णानां कवयो न प्रयुञ्जते ।
ध्वजिनी तस्य राज्ञः के*तूदस्तजलदेत्यदः ॥ १५५॥

यद्यपि स[न्धिवि]कारान्तं पदं स्मृतम्, तथापि एवमपि कर्णानां कटु श्रवणोद्वेजनं न प्रयुञ्जते कवयो रसज्ञाः । तादृशं वर्जनीयमित्यर्थः । कतरत् तदित्युदाहरतितस्य राज्ञः कस्यचित् । ध्वजिनी सेना केतुभिर्ध्वजैरुच्छ्रितैः उदस्ता उत्क्षिप्ता जलदा यथा इति केतूदस्तजलदा इत्यदः ईदृशं कर्णकटु वर्ज्यमत्र । यद्यपि तुशब्दे अकोऽकि दीर्घेण परेणापाकृते के इत्य[त्र] पदत्वं स्यात्, तथापि श्रवणोद्वेजनमीदृशमिति न प्रयोक्तव्यम् । अत्र च श्रुतिरेव कवीनां प्रमाणमिति ॥