118b पठत्यादेः शब्दविद्यायाम् । तथा तद्वत् । सन्धिः संहिता । [तत्र] यणादेः विकारोऽन्यथात्वमन्तोऽवसानं यस्य तत्सम्बन्धि[वि]कारान्तमतद्नुणसंविज्ञानात् सन्धिविकारमपहृत्य शिष्टं प्रकृतिरूपं पदमेवेति वर्ण्यते स्मर्यते शिष्टैः । ततः कार्याकार्येत्यादौ चतुर्थादिना वर्णेण पदच्छेदो यतिर्न विरुध्यत इति ॥

ईदृशमपि यदि श्रवणानुद्वेजनं तदा ग्राह्यमन्यथा हेयमिति पुनर्विशेषं दर्शयन्नाह-

तथापि कटु कर्णानां कवयो न प्रयुञ्जते ।
ध्वजिनी तस्य राज्ञः के*तूदस्तजलदेत्यदः ॥ १५५॥

यद्यपि स[न्धिवि]कारान्तं पदं स्मृतम्, तथापि एवमपि कर्णानां कटु श्रवणोद्वेजनं न प्रयुञ्जते कवयो रसज्ञाः । तादृशं वर्जनीयमित्यर्थः । कतरत् तदित्युदाहरतितस्य राज्ञः कस्यचित् । ध्वजिनी सेना केतुभिर्ध्वजैरुच्छ्रितैः उदस्ता उत्क्षिप्ता जलदा यथा इति केतूदस्तजलदा इत्यदः ईदृशं कर्णकटु वर्ज्यमत्र । यद्यपि तुशब्दे अकोऽकि दीर्घेण परेणापाकृते के इत्य[त्र] पदत्वं स्यात्, तथापि श्रवणोद्वेजनमीदृशमिति न प्रयोक्तव्यम् । अत्र च श्रुतिरेव कवीनां प्रमाणमिति ॥