266
वर्णानां न्यूनताधिक्ये गुरुलघ्वयथास्थितिः ।
यत्र तद्भिन्नवृत्तं स्यादेष दोषः सुनिन्दितः ॥ १५६ ॥

वर्णानां शास्त्रतः प्रतिनियतानां श्लोकभाविनां न्यूनता हीनत्वमाधिक्यमतिरेको वा । न्यूनताधिक्ये द्वे । गुरोः संयोगपरस्य दीर्घस्य लघोश्च ह्रस्वस्याक्षरस्यायथास्थितिः तद्विद्याव्यवस्थातिक्रमेण वृत्तेर्यत्र पद्ये स्यात् कविप्रमादात् तत् तादृशम् । भिन्नं च तद्वृत्तं चेति भिन्नवृत्तम् । भिन्नं वा वृत्तं यस्मिन् काव्ये इति भेदविवक्षया भिन्नवृत्तम् । एष भिन्नवृत्तलक्षणो दोषः सुनिन्दितः सुष्ठु गर्हितः कविभिः काव्यशरीरस्यैवंविधत्वे कुत एव तत्र विशेषवित्ता [कवेः] इति ॥