तदुदाहरति—

मन्दानिलेन चरता*अङ्गनागण्डमण्डले ।
लुप्तमुद्भेदि घर्माम्भो नभस्यस्मन्मनस्यपि ॥ १६० ॥
आसु रात्रिष्विति प्राज्ञैरज्ञातन्यङ्गमीदृशम् ॥ १६१ ॥150

मन्दानिलेन नभसि । अस्माकं मनस्यपि चेतसि च 119a मनोहरतया चरता अङ्गनागण्डमण्डले उद्भेदि उद्नतं घर्माम्भः स्वेदजलं लुप्तम् आसु रात्रिष्विति । अर्थसंगतिरियम् । उदाहरणं तु विसन्धेः- अनिलेन चरता अङ्गनागण्डमण्डले इत्येतत् । अत्र हि चरता अङ्गनेत्यत्र अकोऽकि दीर्घः [इत्यनेन प्राप्तोऽपि] सन्धिः न कृत इति विसन्ध्येतद् द्रष्टव्यम् । द्वयोरन्तादिविषयं तु असन्धानमिष्टम्, [महाजनप्र]सिद्धेरिति दर्शयति लुप्तमुद्भेदि घर्माम्भो नभस्यस्मन्मनस्यपि आसु रात्रिष्विति ।268 ईदृशमर्धान्तादिगोचरमसन्धानम् अज्ञातं न्यङ्गमस्मिन्निति अज्ञातन्यङ्गमविदितदोषम् अदुष्टं ज्ञातं प्राज्ञैः शिष्टैरिति यावत् ।

सरसिजमनुविद्धं शैवलेनापि रम्यंमलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं151 तनोति ।
इयमधिकमनोज्ञा वल्कलेनापि तन्वीकिमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥
152 तस्मादीदृशमसन्धानं प्रयुज्यते शि[ष्टैरि]ष्टत्वात् । प्रथमद्वितीययोः तृतीयचतुर्थयोश्च पादयोस्तु अन्तादिविषयमन्यत्र चापि [पादाभ्यन्तरे] सन्धानमिष्टमिति प्रतिपत्तव्यम् ॥

  1. एतस्मात् पूर्वं मानेर्ष्ये इह शीर्येते स्त्रीणां हिमऋतौ प्रिये इति श्लोकार्ध बहुत्र पठितमपि न रत्नश्रीसम्मतम्, न वा भोटपाठानुगतमिति परित्यक्तम् ॥

  2. अत्र शोभामिति मातृकापाठः । स तु न दण्डिधृतपाठानुसारी । तुल १. १५

  3. अभिज्ञानशाकुन्तले १. १७