267
न संहितां विवक्षामीत्यसन्धानं पदेषु यत् ।
तद्विसन्धीति निर्दिष्टं न प्रगृह्यादिहेतुकम् ॥ १५९ ॥

संहितां सन्धिमेकपदे भिन्नपदे वा प्राप्तामपि न विवक्षामि । असंहितैव मयात्र विवक्षितेति बुद्ध्या पदेषु यदसन्धानमसंहिता तत् तादृशं विगतः सन्धिरस्मादिति विसन्धीति निर्दिष्टमुक्तं काव्यदूषणम् । यत् पुनरसन्धानं प्रगृह्यमादिर्यस्य यलोपादेः स हेतुः कारणमस्येति प्रगृह्यादिहेतुकम्, न तद् विसन्धीति निर्दिष्टं तादृशमसन्धानं युक्तं शास्त्रीयत्वात् । अनेन च यत् प्रगृह्यादिहेतुकमपि विसन्धानं भामहेन वर्जितम्, तन्निरस्तम् । यदाह—

कान्ते इन्दुशिरोरत्ने आदधाने उदंशुनी ।
पातां वः शम्भुशर्वाण्याविति प्राहुर्विसन्ध्यदः ॥
149 इति । लक्षणानुगतं हीदृशं कथमप्रमाणयितुं शक्यते स्वस्थचेतसेति भावः ॥

तदुदाहरति—

मन्दानिलेन चरता*अङ्गनागण्डमण्डले ।
लुप्तमुद्भेदि घर्माम्भो नभस्यस्मन्मनस्यपि ॥ १६० ॥
आसु रात्रिष्विति प्राज्ञैरज्ञातन्यङ्गमीदृशम् ॥ १६१ ॥150

मन्दानिलेन नभसि । अस्माकं मनस्यपि चेतसि च

  1. काव्यालङ्कारे ४. २८
  2. एतस्मात् पूर्वं मानेर्ष्ये इह शीर्येते स्त्रीणां हिमऋतौ प्रिये इति श्लोकार्ध बहुत्र पठितमपि न रत्नश्रीसम्मतम्, न वा भोटपाठानुगतमिति परित्यक्तम् ॥