268 ईदृशमर्धान्तादिगोचरमसन्धानम् अज्ञातं न्यङ्गमस्मिन्निति अज्ञातन्यङ्गमविदितदोषम् अदुष्टं ज्ञातं प्राज्ञैः शिष्टैरिति यावत् ।

सरसिजमनुविद्धं शैवलेनापि रम्यंमलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं151 तनोति ।
इयमधिकमनोज्ञा वल्कलेनापि तन्वीकिमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥
152 तस्मादीदृशमसन्धानं प्रयुज्यते शि[ष्टैरि]ष्टत्वात् । प्रथमद्वितीययोः तृतीयचतुर्थयोश्च पादयोस्तु अन्तादिविषयमन्यत्र चापि [पादाभ्यन्तरे] सन्धानमिष्टमिति प्रतिपत्तव्यम् ॥

देशोऽद्रिवनराष्ट्रादिः कालो रात्रिंदिवर्तवः ।
नृत्यगीतप्रभृतयः कलाः कामार्थसंश्रयाः ॥ १६२ ॥

अद्रिः मलयपर्वतादिः । वनं कालिङ्गादि । राष्ट्रं दक्षिणापथादिकम् । आदिशब्देन नदीधन्वादिपरिग्रहः । स तादृशो देशो विज्ञायते । रात्रिर्दिवा च रात्रिंदिवम् । ऋतवश्च प्रावृडादयः षडिति रात्रिंदिवर्तवः कालविशेषत्वात् कालः सामान्येन विज्ञायते । नृत्यं ताण्डवं लास्यं च । नानारसभावाभिनयाङ्गहारादिरूपं गीतं ज्ञेयम् । तच्च

गान्धर्वं त्रिविधं विद्यात् स्वरतालपदात्मकम् ।
153 इति त्रिधा,
तस्य योनिर्भवेत् कण्ठो वीणा वंशस्तथैव च ॥
154 इति त्रियोनिकम् । विस्तरतया तच्छास्त्र एवाधिकृतम् । तादर्थ्यात् तत्प्रतिपादकं शास्त्रं नृत्तं गीतं प्रभृति प्रमुखं यासां वाद्यादिविद्यानां ता नृत्तगीतप्रभृतयः कलाविद्याः । कामो विशिष्टो विषयोपभोगः । अर्थश्च विचित्रोपकरणरूपः । संश्रयः अधिष्ठानम्,

  1. अत्र शोभामिति मातृकापाठः । स तु न दण्डिधृतपाठानुसारी । तुल १. १५

  2. अभिज्ञानशाकुन्तले १. १७
  3. नाट्यशास्त्रे २८. ११
  4. तत्रैव २८.१०