269 तद्भावभावित्वाद् यासां [कलानां]मिति कामार्थयोः संश्रयाः । साक्षात् पारम्पर्येण तु धर्मोऽप्यासामाश्रयः स्यात्, तन्मूलत्वादर्थकामयोः ॥

चराचराणां भूतानां प्रवृत्तिर्लोकसंज्ञिता ।
हेतुविद्यात्मको न्यायः सस्मृतिः श्रुतिरागमः ॥ १६३ ॥

चराचराणां स्थावरजङ्गमानां भूतानां प्रवृत्तिः यथास्थिति लोक इति संज्ञिता समाख्या[ता] लोकसंज्ञिता