तेषु तेष्वयथारूढं यदि किञ्चित् प्रवर्तते ।
कवेः प्रमादाद् देशादिविरोधीत्येतदुच्येत ॥ १६४ ॥

तेषु तेषु यथोक्तेषु देशादिष्वागमपर्यन्तेषु अयथारूढं तत्तद्विधिप्रतिषेधातिक्रमाद् वैपरी[त्येन] यदि किञ्चिदर्थरूपं प्रवर्तते प्रयोगेषु कवेः प्रयोक्तुः प्रमादाद् विस्मरणहेतोः यथारूढं यदि किञ्चिन्न वर्तत इत्यपि पाठः । अर्थस्तु स एव । तदेवं तद्यथा आरूढं प्रवृत्तं देशविरोधीति उच्यते । आदिशब्देन कलादिपरिग्रहः । देशादिभिर्विरोधो बाधा अस्तीति कृत्वा, देशादयोऽन्यथा व्यवस्थिताः, अन्यथा च कल्प्यन्त इति तादृशी तैर्बाध्यते ॥