120a लोके विज्ञायते । हेतुविद्या तर्कशास्त्रम् आत्मा यस्य स हेतुविद्यात्मको न्यायोऽत्र गृह्यते । श्रुतिः वेदः सह स्मृत्या मन्वादिप्रणीतया वर्तते इति सस्मृतिरागमो वेदितव्यः ॥

तेषु तेष्वयथारूढं यदि किञ्चित् प्रवर्तते ।
कवेः प्रमादाद् देशादिविरोधीत्येतदुच्येत ॥ १६४ ॥

तेषु तेषु यथोक्तेषु देशादिष्वागमपर्यन्तेषु अयथारूढं तत्तद्विधिप्रतिषेधातिक्रमाद् वैपरी[त्येन] यदि किञ्चिदर्थरूपं प्रवर्तते प्रयोगेषु कवेः प्रयोक्तुः प्रमादाद् विस्मरणहेतोः यथारूढं यदि किञ्चिन्न वर्तत इत्यपि पाठः । अर्थस्तु स एव । तदेवं तद्यथा आरूढं प्रवृत्तं देशविरोधीति उच्यते । आदिशब्देन कलादिपरिग्रहः । देशादिभिर्विरोधो बाधा अस्तीति कृत्वा, देशादयोऽन्यथा व्यवस्थिताः, अन्यथा च कल्प्यन्त इति तादृशी तैर्बाध्यते ॥

कर्पूरपादपामर्शसुरभिर्मलयानिलः ।
कलिङ्गवनसम्भूता मृगप्राया मतङ्गजाः ॥ १६५ ॥

कर्पूरपादपानामामर्शे[न संस]र्गेण सुरभिः सुगन्धिर्मलयानिलः । [इद]मद्रिलक्षणदेशविरुद्धमुदाहृतम्, मलयपर्वते कर्पूरसम्भूतेरयथारूढत्वात् । कलिङ्गो नाम वनमरण्यं तत्र तस्माद् वा संभूता मतङ्गजा हस्तिनः मृगप्राया मृगलक्षणा हस्तिजातिः प्राया भूयसी ये[षु] तया वा प्रायाः समधिका मृगप्रायाः । एतद् वनरूपदेशव्याहतम् । कलिङ्गवनजन्मनां हस्तिनां भद्रजाति प्रायत्वात् ॥

चोलाः कालागरुश्यामाः कावेरीतीरभूमयः ।
इति देशविरोधिन्या वाचः प्रस्थानमीदृशम् ॥ १६६ ॥