दुष्करमार्गमुपसंहरति—

इति दुष्करमार्गोऽपि किञ्चिदादर्शितक्रमः ।

इत्युक्तेन विधिना दुष्करमार्गो दुष्करोऽपि काव्यप्रकारः । न केवलं सुकर इत्यपि शब्दः । किञ्चिद् ईषत् संक्षेपतः, तथा प्रतिज्ञानात् । क्रियाविशेषणमेतत् । आदर्शित उक्तः क्रमः स्वभावोऽस्येत्यादर्शितक्रमः प्रतिपादित इति दुष्करमार्गेऽपि240 कश्चिदादर्शितः क्रम इत्यपि पाठः । तत्र दुष्करमार्ग विषयेऽपि क्रमः प्रकारः कश्चित् कोऽपि संक्षिप्तः आदर्शित इति योज्यम् ।