271 कालेन रात्र्यादिना यथोक्तेन विरोधस्य व्याघातस्य भारतीविषयस्य ईदृशी गतिः प्रस्थानं दर्शिता । कलया नृत्यगीतादिविद्यया विरोधस्य वचनगोचरस्य मार्गः प्रस्थानं मनाक् किञ्चिद् उद्दिश्यते उदाह्रियते यथेति दर्शयति ॥

वीरशृङ्गारयोर्भावौ स्थायिनौ क्रोधविस्मयौ ।
पूर्णसप्तस्वरः सोऽयं भिन्नमार्गः प्रवर्तते ॥ १७० ॥

वीरश्च शृङ्गारश्च [तयोर्वीर]शृङ्गारयो रसयोः प्रभवौ भावौ मनोवस्थाविशेषलक्षणौ क्रोधश्च विस्मयश्च क्रोधविस्मयौ स्थायिनौ यावद्रसमवस्थानात् । न तु व्यभिचारिभाववदस्थायिनौ । पूर्णाः समग्राः सप्त ऋषभमध्यमगान्धारषड्जधैवत्पञ्चमनिषादाख्याः स्वरा यस्मिन्निति पूर्णसप्तस्वराः । [ते सन्ति] यस्मिन्निति पूर्णसप्तस्वरः सोऽयं भिन्नमार्गो गान्धर्वप्रकारः कश्चित् प्रवर्तते । एतत् कलाविरुद्धम् । क्रोधविस्मययोः स्थायिनोर्भावयोः शृङ्गारवीरयोरयोनित्वेन कलायां व्यवस्थानात् । रौद्राद्भुतयोरेव हि क्रोधविस्मयौ स्थायिनौ भावौ तत्र व्यवस्थाप्येते । वीरशृङ्गारयोस्तु उत्साहरती एव स्थायिनौ भावौ । अन्यतरस्वरहीनस्यैव च भिन्नमार्गतया व्यवस्थानादिति ॥

कलाविरोधमतिदिशन्नाह—

इत्थं कलाचतुःषष्टौ विरोधः साधु नीयताम् ।
तस्याः कलापरिच्छेदे रूपसाविर्भविष्यति ॥ १७१ ॥

इत्थमनेन प्रकारेण कलानां कलारूपाणां चतुःषष्टौ द्विविधायामपि विरोधः तद्व्यवस्थातिक्रम[