272 सुगमम् । हस्त्यादेः तुरङ्गमादेरिव केशराद्यसम्भवादीदृशं लोकविरोधि वचनमिति उक्तरूपोऽयं विरोधः ॥

इति लौकिक एवायं विरोधः सर्वगर्हितः ।

लौकिको लोकविदित एव अत एव सर्वैः शिष्टै[रन्यै]श्च गर्हितो निन्दितः । नैवेदृशं कश्चित् स्वस्थ[ः/?/] प्रयुङ्क्ते । केवलं लोकविरुद्धो भवन्नेवं भवेदिति इत्थं सम्भवमात्रेण दर्शितः ॥

विरोधो हेतुविद्यासु न्यायाख्यासु निदर्श्यते ॥ १७३ ॥

हेतुविद्यासु आन्वीक्षिकीषु न्याय [इत्य]ा/?/ख्या[युक्ता]सु इति न्यायाख्यासु उद्देशे न्यायशब्दोपादानात् । एवमनुसृतो विरो[धो] निर्दिश्यते ॥

सत्यमेवाह सुगतः संस्कारानविनश्वरान् ।
तथा हि सा चकोराक्षी स्थितैवाद्यापि मे हृदि ॥ १७४ ॥

सुगतस्तथागतः संस्कारान् सम्भवहेतुप्रत्ययैः क्रियन्त इति पदार्थानविनश्वरान् नित्यानक्षणिकान् सत्यमाहाब्रवीत् । सत्यमिति वचनविशेषणम् । कथं सत्यमिति ? तदेव समर्थ्यते । तथाहि समर्थने । सा काचिदिष्टा चकोराक्षी स्त्री मे मम हृदि मनसि अद्यापि चिर[कालादा]रभ्य स्थिता इति । यदि तु संस्कारा नश्वराः, कथमेवं घटते ? तदेतत् न्यायविरुद्धम् । संस्काराणां सर्वेषां सौगते न्यायशास्त्रे प्रतिक्षणं विशरारु [त]या व्यवस्थापनादिति ॥

कापिलैरसदुद्भूतिः स्थान एवोपवर्ण्यते ।
असतामेव दृश्यन्ते यस्मादस्माभिरुद्भवाः ॥ १७५ ॥

कापिलैः सांख्यैरसतां शक्तिरूपेणाप्यविद्यमानानां उद्भूतिरुत्पादः स्थान एव सत्यमेव । स्थान इत्येकारान्तो निपातो युक्तार्थसूचकः । उपवर्ण्यते विवृतः । यस्माद् असतामेवार्थानाम् उद्भवा जन्मान्यस्माभिर्दृश्यन्ते । एतदपि हेतुविद्याव्याहतम् । सांख्यमते सतामेव भावानां कथञ्चिदाविर्भावस्य व्यवस्थापनात् ॥