विरोधः सकलोऽप्येष कदाचित् कविकौशलात् ।
उत्क्रम्य दोषगणनां गुणवीथीं विगाहते ॥ १७९ ॥

274 सकलोऽप्येष विरोधो देशादिकृतः.........एव कश्चिद् दोषरूपेण गणनां संख्यानं दोषात्मतामुत्क्रम्य परित्यज्य गुणानां वीथीं पदवीं गुणस्वभावतां विगाहते स्वीकरोति कदाचित् । न सर्वदा । कुतः ? कवेः प्रयो[गस्य] कौशलात् तादृग्विषयपरिग्रहलक्षणात् नैपुणात् कारणात् । न तु यथा तथा वेति ॥