121b न्यायविरोधस्य हेतुविद्याव्याहतेः काव्ये यस्य यस्य गतिः सैषा यथोक्तप्रकारा सर्वत्र अन्यत्रापि यथासम्भवं दृश्यतामवगम्यताम् । अथानन्तरमागमेन धर्मशास्त्रसहितेन वेदेन विरोधस्य बाधाया भारतीभूमेः प्रस्थानं नीतिः दर्शयिष्यते उदाह्रियते ॥

अनाहिताग्नयोऽप्येते जातपुत्रा वितन्वते ।
विप्रा वैश्वानरीमिष्टिमक्लिष्टाचारभूषणाः ॥ १७७ ॥

आहितो वैदिकेन विधिना परिगृहीतोऽग्निः परिणयकालभावी यैरिति आहिताग्नयः । न तथा अनाहिताग्नयो ये [ते] अपि । अपिशब्दो योगं सूचयति । एते विप्राः । जाताः पुत्रा एषामिति जातपुत्राः । विश्वानरो देवता अस्यामिति वैश्वानरीमिष्टिमिज्याम् । आग्नेय[यज्ञं] वितन्वते कुर्वन्ति । अक्लिष्टः परिशुद्धः आचारश्चारित्रं शास्त्रविहितं भूषणमलङ्कारो येषामित्यक्लिष्टाचारभूषणाः । इदमागमविरुद्धम् । ये हि [साग्निका] उत्पन्नतनयाश्च [त एव] वैश्वानरं यागमनुतिष्ठन्तीति श्रुतेः । कथमन्यथा अक्लिष्टाचारा इति ॥

असावनुपनीतोऽपि वेदानधिजगे गुरोः ।
स्वभावशुद्धः स्फटिको न संस्कारमपेक्षते ॥ १७८ ॥

असौ विवक्षितः कश्चित् । अनुपनीतोऽप्रयुक्तवैदिकसंस्कारविशेषोऽपि गुरोः सकाशाद् वेदा[न्] सामादीन् अधिजगेऽधीतवान् । तथाहि, स्वभावेन प्रकृत्यैव न संस्कारतः । शुद्धो निर्मलः स्फटिको मणिः संस्कारमुत्कर्षाधानं नापेक्षते । इदमपि आगमव्याहतम् । उपनीतो वेदानधीयीतेति श्रुतेः । कथमन्यथा शुद्धिरिति ॥

विरोधः सकलोऽप्येष कदाचित् कविकौशलात् ।
उत्क्रम्य दोषगणनां गुणवीथीं विगाहते ॥ १७९ ॥