274 सकलोऽप्येष विरोधो देशादिकृतः.........एव कश्चिद् दोषरूपेण गणनां संख्यानं दोषात्मतामुत्क्रम्य परित्यज्य गुणानां वीथीं पदवीं गुणस्वभावतां विगाहते स्वीकरोति कदाचित् । न सर्वदा । कुतः ? कवेः प्रयो[गस्य] कौशलात् तादृग्विषयपरिग्रहलक्षणात् नैपुणात् कारणात् । न तु यथा तथा वेति ॥

तस्य राज्ञः प्रभावेण तदुद्यानानि जज्ञिरे ।
आर्द्रांशुकप्रवालानामास्पदं सुरशाखिनाम् ॥ १८० ॥

तस्याभिमतस्य राज्ञः कस्यचित् प्रभावेण पुण्यानुभावात् अतिमानुषात् तस्यो