275
दोलातिप्रेरणत्रस्तवधूजनमुखोद्गतम् ।
कामिनां लयवैषम्याद् गेयं रागमवर्धंयत् ॥ १८२ ॥

दोला प्रेङ्खा तस्या अतिप्रेरणादतिकम्पनाद् । [अन]तिमात्रतत्प्रेरणतो हि न भवेदपि लयवैषम्यम् । तस्मात् त्रस्तस्य भीतवधूजनस्य स्त्रीणां मुखादुद्भवं गेयं गीतं कामिनां रागमवर्धयत् उद्दीपितवत् । कुतः ? लयस्य क्रियामानकाललक्षणस्य द्रुतमध्यादिप्रभेदस्य तत्कालपरिदृष्टस्य वैषम्यादयथाकालं प्रवृत्तेः । एतच्च विरुद्धम् । कथं हि लयविषममलक्षणदुष्टं गेयं रञ्जकं भवति ? तथापि ईदृशं स्थूलं गीतं शीत्कारायमाणं कामिनां सुतरां रञ्जकम् । कि मव हि तेषामरञ्जकमिति न कालविरोधः ॥

ऐन्दवादर्चिषः कामी शिशिरं हव्यवाहनम् ।
अबलाविरहक्लेशविक्लवो गणयत्ययम् ॥ १८३ ॥

ऐन्दवादिन्दोः सम्बन्धिनोऽर्चिषो रश्मेरप्यधिकशिशिरं शीतं हव्यवाहमग्निं गणयति । [कः ?] अधैर्योऽयं विवक्षितः कश्चित् कामी । [कथम् ?] अबलायाः प्रियाया विरहो दुःखं स एव वा क्लेशः । तेन विक्लवो विप्लुतः सन् । विरहविकारविप्लुतस्य हि तथा प्रतिभास इति न लोकविरोधः ॥

प्रमेयोऽप्यप्रमेयोऽसि सकलोऽप्यसि निष्कलः ।
एकस्त्वमप्यनेकोऽसि नमस्ते विश्वमूर्तये ॥ १८४ ॥

प्रमेयः परिच्छेद्योऽपि व्यक्तक्षित्यादिमूर्त्त्यपेक्षया अप्रमेयोऽसि अव्यक्तः परमरूपतः । प्रमेयोऽपि वा