122b अनुमानप्रमाणगम्यत्वादप्रमेयोऽसि [इन्द्रिया]विषयत्वात् । सकलः सावयवोऽपि [आ]रब्धक्षित्यादिमूर्तत्वात्, निष्कलो निरवयवः असि परमात्मरूपतः । एकोऽपि त्वं शाश्वतब्रह्मरूपेण, अनेकोऽसि परिणामवैचित्राद् इत्येवं विश्वमूर्तये सर्वमयाय [ते] तुभ्यं नमः । इतीदृशं न न्यायविरुद्धम्, एवंविधत्वाद् ब्रह्मणः परमस्येति ॥

पञ्चानां पाण्डुपुत्राणां पत्नी पञ्चालकन्यका ।
सतीनामग्रणीश्चासीद् दैवो हि विधिरीदृशः ॥ १८५ ॥