दर्शिता नाम । किमतः इति सर्वारम्भस्य तन्निष्ठत्वात् प्रयोजनदर्शनद्वारेण समापयन्नाह—

व्युत्पन्नबुद्धिरमुना विधिदर्शितेनमार्गेण दोषगुणयोर्वशवर्तिनीभिः ।
वाग्भिः कुताभिसरणो मदिरेक्षणाभि-र्धन्यो युवेव रमते लभते च कीर्तिम् ॥ १८७ ॥

अमुना अनेन मार्गेण काव्यलक्षणविधिना यथावद् दर्शितेन प्रकाशितेन हेतुना, दोषश्च हेयो भागः, गुणश्चोपादेयः । यथोक्तयोस्तयोः कार्यसम्बन्धिनोः व्युत्पन्ना विवेकिनी हानोपादानसमर्था बुद्धि[र्यस्य तादृशः] काव्यदोषगुणज्ञः पुमान् । अत एव वशवर्तिनी[भिरा]यत्ताभिर्वाग्भिः काव्यरूपाभिरनवद्याभिः कृतमभिसरणं स्वरसत एवोपसर्पणमस्मिन्निति वाक्कृताभिसरणः अभिसृतो रमते प्रीतिमनुत्तरामनुभवति । कीर्तिं च277 सत्पुरुषतनुमनश्वरीं गुणमर्यो भुव[नातिशा]यिनीमतिमनोहरां लभते प्राप्नोति । उपलक्षणं चैतत् । चतुर्वर्गसिद्धिमपि चाधिगच्छति । यथोक्तं प्रथमे परिच्छेदे १.३ । कथमिव ? वशवर्तिनीभिर्मदिरेक्षणाभिः कृताभिसरणो धन्यः 123a .......सुभगो युवा तरुण इ[व] । यथायं रमते प्रीत्युत्मवं निर्विशति, लभते च कीर्तिं सुभग इति ख्यातिं तथा [व्युत्पन्न]बुद्धिरयमित्युपनेयम् ॥

इति गदितुमवस्थां का[म]पि श्लाघ्यरूपा-मुपचितगुणता[यां] मत्सरं न श्रियै वः ।
कनकमयमिवेदं दीप्त[भास्वत्स]वणश्रवणसुभगमी[ड्यं] दण्डिनः काव्यलक्ष्म ॥
कृशतरगुणपूर्णं कालमालोकयद्भि-र्गुरुरिव गुणलेशोऽप्यद्य संभावनीयः ।
जगति विगतमेघे क्षारवारिप्रबन्धेलव इव सलिलस्य स्वादरो दृश्यमानः ।
गुणलवमपि सन्तो गुह्णते तेन तेषा-मतिविपुलगुणत्वं तन्न चित्रीयते नः ।
गुरुमपि गुणराशिं दुर्जना विद्विषन्तःकथमपि गुणभावं तन्वते चित्रमेतत् ॥
चिरंतनो वा कविर[द्य] वा स्फुटंगुणोत्तरं वाक्यमुपास्यते बुधैः ।
तरोः पुराणस्य नवस्य वा फलंनिरस्तशङ्कं मधुरं निषेव्यते ॥
भवति सुगममेव ग्राम्यमप्यर्थजातंपरिणतपदबन्धैः स्पृश्यमानं कवीनाम् ।
अविकलरसबन्धैस्तद्विदा बध्यमानंविमलकनकसंख्यां याति यत्किञ्चिदेव ॥
278
श्रवणममृतपूर्णं स्वान्तमानन्दरूढंनयनमपरिशून्यं हर्षजैरश्रुलेशैः ।
वपुरधिगतरोमोद्भेदमास्वाद्य न[ः/?/]स्या-दिदमिति किल काव्यं पठ्यते श्रूयते च ॥
विशेषविज्ञानवितानबुद्धयोभवन्ति सूक्तिश्रवणस्य भाजनम् ।
प्रभावितः काव्यरसो मनस्विनांतनोति लज्जां पशुषु प्रकाशितः ॥
प्रसन्नशास्त्रेषु सुभाषितप्रिये-षु शान्तगर्वेषु विशेषवेदिषु ।
व्रजन्ति वाचः सरसा महोत्सवंगृहीतविद्याश्चतुरा इव स्त्रियः ॥
दोषेष्वेव निवेशयन्ति हृदयं सर्वं खलास्ते कथंकल्पन्ते गुणवैरिणो गुणवतां ज्ञात्वा गुणानां रसम् ।
दोषा[नेव हि] तत्र केवलममी पश्यन्ति [नित्यं सतां]त्यक्त्वा सद्गुणराशिमूर्जितमहो चित्रा खलानां गतिः ॥
मिथ्यादूषणसाहसेन महतां तादृग्विशेषच्युतालिप्सन्ते किल दुर्जनाः समतया संभावनां तादृशीम् ।
नायं हेतुरवाप्तये गुणभुवः कीर्तेः सतां संसदिव्यामोहादपि वा गुणेषु पतनं तेषां यदेतद्बहु ॥
वचनमिदमिदं च वस्तु नैतत्समुचितमत्र निषेव्यमन्यदेव ।
प्रहतमिदमपूर्वमीक्ष्यमित्थंकथमपि सिद्धिमुपैति वाक्प्रबन्धः ॥
फलमुपचितमिदं श्रमस्य तस्यप्रशमनमश्रुलवः सरोमहर्षः ।
प्रमदभवनविजृम्भितो बुधाना-मिदमपि [मत्स]रमा123b नयन्ति केचित् ॥
279
तदधिकमथ तादृशं विधातुंचतुरमतिः परदूषणे क्रमेत ।
वितथा बुधविदग्धता विधातःप्रवदति यत् तदिदं तु कर्णशूलम् ॥
खलजनपरिनिन्दया गुणानांन च विहतिः प्रकृतिस्तु तस्य सैषा ।
भवति तु भणितिस्ततः स्फुटेयंन खलु खला गुणवर्जितं द्विषन्ति ॥
शिशिरयन्ति य एव म[न]स्विनःशशभृतः किरणा इव सद्गुणाः ।
यदि दहन्ति त एव खलानलंक्व भवतामथवा खलवल्लभः ॥
दुःखासिका किमियमेति खलं प्रकाश-कान्तैर्गुणैर्गुणवतां क इवास्य नाशः ।
प्रीतिं परां सुजनवत् किमयं न भुङ्क्तेप्रीत्यर्थ एव सकलः पुरुषप्रयासः ॥
तारयन्ति परमित्यतिशीतै-रभ्युपैति सुजनान् परतापी ।
स्वैर्गुणैरिदमनुक्तमुदात्तै-रन्तरं सदसतोरतिदूरम् ॥
वाक्यमक्षतगुणं परात्मनोनाद्रियेत सुजनस्य सूरिभिः ।
सर्वथा स्वपरघाति वाग्विषंदुर्जनस्य परिगृह्यते कथम् ॥
280
निन्दितं स्तुतमथापि यत्कृतंन प्रमाणमुपकल्प्यते क्वचित् ।
तादृशं च लपितं यदीहतेधिग् विडम्बनमनात्मवेदनम् ॥
ईर्ष्ययाधिगुणेषु दीप्तयास्पर्धया च सदृशेषु दह्यते ।
निर्निमित्तमधमेष्ववज्ञयाकेन सोऽयमनुरज्यतां खलः ॥
शिष्यते यदि रूपा प्रदीप्यतेन स्वयं च गुणवर्त्म गाहते ।
दुर्जनः कथमयं चिकित्स्यता-मूर्जनान्न परमस्य भेषजम् ॥
दोषमेव गुणतो विगाहतेतत्र चान्यमनुशास्ति दुर्मतिः ।
ज्ञातवानपि कथंचिदन्यतःपक्षभङ्गभयतो न मुञ्चति ॥
इत्यलीकबुधमानदूषितंदूरतस्तमपवादवर्त्मनः ।
कालदष्टमिव वर्जयन्त्यमीसाधु शासनविदोऽपि साधवः ॥
भक्तिमानधिगुणाद् गुणामृतंसेवते तदवरेषु वर्षति ।
तद्विवृद्धिपदवीं समं समैःसंकथां दिशति दक्षिणो जनः ॥
281
नामतोऽपि सुजनः सुखावहःकिं पुनर्गुणमयेन कर्मणा ।
त्रासयत्युभयथापि सर्पवद्दुर्जनस्त्वयमकाण्डरोषणः ॥
अद्भुतप्रति[भया] विशारदाःशारदेन्दुविशदा विपश्चितः ।
कस्य नाम न हरन्ति मानसंदुर्जनः किल न तेषु तुष्यति ॥
नान्तमेति सुजनः सुचेष्टिताद्दुर्जनोऽपि चरितादसद्गुणात् ।
किंचिदे[व स्थित]मन्तरं तयो-रागतं प्रकरणात्कथंचन ॥
सर्वथा भुवनपावनात्मनेसज्जनाय गुणराशये नमः ।
सद्गुणप्रणिहिता दुरात्मना-मस्तु बुद्धिरवधूय दुष्टताम् ॥
सर्वाभ्युन्नतराष्ट्रकूटतिलस्याशान्तगीत[स्तुते]-रुद्दामद्विषदन्तकस्य गुणिनां धाम्नो गुणानामपि ।
लक्ष्मीजुष्टपदाम्बुजस्य जयिनः सामन्तचूडामणेःश्रीम[त्तु]ङ्गनराधिपस्य सुधियः सानाथ्यमेवंविधम् ॥
कीर्तयो विदुषां तुङ्गमहीधरसमाश्रयात् ।
प्रभवन्ति महानद्यो यथा लोकार्थवृत्तयः ॥
यशःकीर्तिरिति ख्यातः श्रीमानन्त्यभ(?)सूरतः ।
कल्याणमित्रमत्राभूद् भिक्षुः सिन्धुविभूषणः ॥

282 अन्यस्त्वाह—

आसारगुरुका वाणी वादिनामद्य दुर्भगा ।
तद्विपर्या[स]विन्यासा रत्नश्रीज्ञानभारती ॥