276 पञ्चानां यु[धि]ष्ठिरादीनां पाण्डोः पुत्राणां पत्नी पञ्चालकन्यका द्रौपदी बभूव । हन्त न तर्हि दृष्टपञ्चपुरुषा सा कुलस्त्री स्यादिति चेदाह— सतीनां पतिव्रतानां मध्ये अग्रणीः प्रधानभूता चासीत् । कथमेवम् ? दैवो देवसम्बन्धी हि विधिः प्रभाव ईदृशः एवंभूतो यदेवंविधमपि घटते । किमत्र क्रियताम् ? को हि दैवं विधानमप्रमाणयितुं शक्नोति । हिशब्देनेदमेव प्रसिद्धं द्योत्यते । ततश्च नागमविरोधः ।

काव्यलक्षणं यथाप्रतिज्ञातं निगमन्नयाह—

शब्दार्थालंक्रियाश्चित्रमार्गाः सुकरदुष्कराः ।
गुणा दोषाश्च काव्यानामिति संक्षिप्य दर्शिताः ॥ १८६ ॥

काव्यानां शब्दश्चार्थश्च शब्दार्थौ शरीरम् । तयोश्चालंक्रिया शब्दालङ्कारा अर्थालङ्काराश्च । चित्रा नानाप्रकारा सुकराः दुष्कराश्च मार्गा यमकादिरूपाः, चित्रा गुणाः समुदायार्थसम्पत्त्यादयः । दोषाश्च तद्विपक्षाः साधारणा असाधारणाश्च श्लेषविपर्ययादयः । उक्तेन विधिना [एतत् सर्वं] संक्षिप्य समासतो दर्शिताः प्रतिपादिताः ॥

दर्शिता नाम । किमतः इति सर्वारम्भस्य तन्निष्ठत्वात् प्रयोजनदर्शनद्वारेण समापयन्नाह—

व्युत्पन्नबुद्धिरमुना विधिदर्शितेनमार्गेण दोषगुणयोर्वशवर्तिनीभिः ।
वाग्भिः कुताभिसरणो मदिरेक्षणाभि-र्धन्यो युवेव रमते लभते च कीर्तिम् ॥ १८७ ॥

अमुना अनेन मार्गेण काव्यलक्षणविधिना यथावद् दर्शितेन प्रकाशितेन हेतुना, दोषश्च हेयो भागः, गुणश्चोपादेयः । यथोक्तयोस्तयोः कार्यसम्बन्धिनोः व्युत्पन्ना विवेकिनी हानोपादानसमर्था बुद्धि[र्यस्य तादृशः] काव्यदोषगुणज्ञः पुमान् । अत एव वशवर्तिनी[भिरा]यत्ताभिर्वाग्भिः काव्यरूपाभिरनवद्याभिः कृतमभिसरणं स्वरसत एवोपसर्पणमस्मिन्निति वाक्कृताभिसरणः अभिसृतो रमते प्रीतिमनुत्तरामनुभवति । कीर्तिं च