251 संकरस्य संसर्गस्य क्रमः प्रकार उन्नेयोऽभ्यूह्यः । स चैव मुन्नीयताम्—

सुराप्रयोगेप्रसृता विप्राः शूद्रान्नभोजिनः ।
आम्नायाध्ययनं त्यक्त्वायुध्यन्तः पाप[माश्रिताः] ॥

समागता [व्युत्क्रान्तयोः] संकरः ।

विशालेऽत्र गिरौ दृष्टो गिरिर्न सक्तनिर्झरः ।
यश्चार्क[पिशितासा]ख्यो दोलायेत प्रतिक्षणम् ॥

समानरूपासमानशब्दयोरयं संकरः ।

लक्ष्मीधरपतेः कान्तं गता गङ्गाधराङ्गना ।
चन्द्रा[धारे] परीतापः कुतोयं मे तवोदये ॥

पारिहारिकीप्रकल्पितयोः संकरः ।

॥ इति प्रहेलिकाचक्रम् ॥

एवं शब्दालङ्कारस्वभावाः काव्यगुणा यथावत् प्रतिपादि[ताः] । दोषा अपि केचिदसाधारणवैदर्भमार्गसम्भविनः श्लेषादयः । संप्रति सर्वमार्गसाधारणानुपदर्शयन्नाह—

अपार्थ व्यर्थमेकार्थं ससंशयमपक्रमम् ।
शब्दहीनं यतिभ्रष्टं भिन्नवृत्तं विसन्धिकम् ॥ १२५ ॥
देशकालकलालोकन्यायागमविरोधि च ।
इति दोषा दशैवैते वर्ज्याः काव्येषु सूरिभिः ॥ १२६ ॥

अपगतोऽर्थः अभिधेयो वाक्यसम्बन्धि यत इत्यपार्थम् । विरुद्धः पूर्वापराहतः अर्थोऽभिधेयो यस्मिन्निति व्यर्थम् । एकः स एव प्रतिपादितोऽर्थोऽभिधेयः पुनर्यस्मिन् प्रतिपाद्यते तदेकार्थम् । संशयोऽर्थविषयः, किमयमर्थोऽयं वेत्युभयार्थावलम्बी प्रत्ययः, तेन [स]ह वर्तते तज्जनकत्वादिति ससंशयम् । अपगतः क्रमो यथोद्देशं प्रत्याम्नायत इत्यपक्रमम् । शब्देन शब्दविद्याप्रसिद्धेन पदेन हीनं रहितं तद्विपक्षयोगादिति शब्दहीनम् । यतेः छन्दःशास्त्रविहितात् विगमात् भ्रष्टमपगतमिति यतिभ्रष्टम् । भिन्नं