113a ऽसिद्धादयो हेतुदोषाः । यथा चाराञ्जिकादयो धान्यसम्भविनो धान्यदोषा उच्यन्ते लोके । अत्रापार्थादयो यदा भावप्रधानाः, तदा अपार्थत्वादयो दूषणानीति भावसाधनेन दोषाः । दूषयन्ति वा काव्यव्यपदेशमात्रेण क्वचिद् वा अपवादविषये काव्यमेवेति तत्त्वात् अन्यत्रेति दोषाः । यद्वक्षति—

तन्मत्तोन्मत्तबालानामुक्तेरन्यत्र दुष्यति ।
135 इत्यादि । तद्योगात् काव्यं दुष्टमिति ज्ञेयम् । यदा तु धर्मप्रधानाः, तदा अपार्थादयो दुष्यन्ति हेया भवन्तीति दोषाः । तदाभासत्वाच्च काव्येषु दोषाः । यथा दृष्टान्ताभासा दृष्टान्तेषु, शब्दाभासाः शब्देष्विति सर्वथा काव्यदोषास्ते वर्जनीया स्मृतिमतेति ॥

अथ

प्रतिज्ञाहेतुदृष्टान्तहीनं दुष्टं च वर्ण्यते ।
समासेन यथान्यायं तन्मात्रार्थप्रतीतये ॥
136 इत्यादिना विस्तरेण प्रतिज्ञाहान्यादयो दोषाः काव्यलक्षणान्तरे दर्शिताः । ते किमिह नोच्यन्त इति चेदाह—

प्रतिज्ञाहेतुदृष्टान्तहानिर्दोषो न वेत्यसौ ।
विचारः कर्कशप्रायस्तेनालीढेन किं फलम् ॥ १२७ ॥

  1. ३. १२८
  2. काव्यालङ्कारे ५. १