254 इति । तद्विस्तरोऽप्यन्यत्रैव । सेयं त्रिविधा हानिः प्रत्येकमनेकशो नाना काव्येषु दोषः । वैगुण्यं वा दोषो वेति सदसत्पक्षविकल्पनम् । विचारोऽयं [वि]गृह्य परीक्षा[या] इह कथञ्चित् प्रस्तुतत्वेऽपि [मुख्यतस्तस्याः] तर्कशास्त्र[गोचर]त्वात् कर्कशप्रायः कर्कशभागः अतिगम्भीरत्वादिहानधिकाराच्च, प्रायो भूयान् यस्मिन्निति कृत्वा । तेन वा प्रायो बहुलः । प्रायेण भूम्ना वा कर्कशः कर्कशप्रायः । राजदन्तादिषु दर्शनात् पूर्वनिपातः । कर्कशप्रायः कठिनभूयिष्ठः अरञ्जक इति यावत् । इह च कोमलप्रायः काव्यप्रतिनियतः गुणदोषविषयो विचारोऽधिकृतः । तस्मात् तेन कर्कशप्रायेण विचारेण आलीढेन अनुष्ठानमुखेनादृतेन किं फलम् ? काव्यप्रतिनियतगुणदोषनिर्णयरूपं प्रयोजनं किमस्ति ? नैवेत्याशय । तथा चाह—

काव्यलक्षणे काव्यप्रतिनियता दोषा गुणाश्च विचार्यन्ते । न शास्त्रान्तरसाधारणा अपि, सर्वशास्त्रसमुच्चयप्रसङ्गात् । ततश्च अत्रैव सर्वगुणदोषव्युत्पत्तौ शास्त्रान्तराणि व्यर्थानि स्युः, तावन्मात्रफलत्वाद् विद्यास्थानानाम् । तत्रैतत्प्रतिनियतव्युत्पत्तेरन्यतः सिद्धेरिदमपि व्यर्थं स्यात्, सर्वत्र प्रतिनियमाभावात् । न चैवम्, गुणदोषव्युत्पत्तीनां प्रतिशास्त्रं नियमदर्शनात् । अथ काव्याङ्गत्वात् प्रतिज्ञाभेदादिकं विद्यान्तरमपि संक्षिप्तमिहाभिधानीयम् । तत् किं छन्दोविचित्यादिकं तत्र नाभिमतम् ? तस्यापि काव्याङ्गत्वेन निमित्तस्य समानत्वात् । न च यत्किञ्चिदिह दर्शितम् इत्येतावता शास्त्रान्तरे सम्यग्ज्ञानं सम्पद्यते, पुनस्तच्छास्त्रादेव यथावदवगमव्यपेक्षणात् ज्ञानानां [च] प्रतिशास्त्रं नियतत्वात् । ततस्तत एव तत्तज्ज्ञानमपेक्षणीयम् । यत् पुनः काव्यलक्षणस्यास्य प्रमाणलक्षणीकरणम्, तदाहोपुरुषिकामात्रमिति सूक्तमिदं तेनालीढेन किं फलमिति ॥