255 मात्रेण, तस्य क्वचिदप्यव्यभिचारात् । दशदाडिमानि षडपूपा इत्यादावपि पदार्थप्रत्ययोदयात् । यत् इत्यनूद्य तत् समुदायार्थशून्यम् अपार्थम् । इह दोषप्रस्तावे । अपार्थमिति वा अपार्थं नाम इष्यते स्मर्यत इति विधिः । तदपार्थं दुष्यति काव्यदोषो भवति इत्युत्सर्गः । तस्यापवादमाह- मत्तेत्यादि । मत्ता मदिरामदादियोगात् । उन्मत्ता वायुक्षोभादिचित्तविक्षेपात् । बालाः हेयोपादेयज्ञानविकलाः अव्युत्पन्नाः तथा बालकल्पाः शक्तिविकला वृद्धा असंबद्धभाषिणः । तेषां तथाविधाया एवोक्तेरुचितत्वात् । सैव तेषां सूक्तिरिति । [अतः] तेषामुक्तेरन्यत्र सुभाषितविषये [तदिदमपार्थं] दुष्यति दुष्टं जायते ॥

तदुदाहरति—

समुद्रः पीयते देवैरहमस्मि जरातुरः ।
अमी गर्जन्ति जीमूता हरेरैरावणः प्रियः ॥ १२९ ॥

न ह्यत्र समुद्रः पीयत इत्यादेः पदसमुदायस्य कश्चिदेकोऽर्थो गृह्यते यः काव्यार्थः स्यात् । अवयवार्था एवान[न्विताः] शलाकाकल्पाः प्रतिभान्ति । तदीदृशमपार्थं विज्ञेयम् ॥

उत्सर्ग[त]स्त्वसम्भवमिदमिति अपवादमुखेन निगमयन्नाह—

इदमस्वस्थचित्तानामभिधानमनिन्दितम् ।
इतरत्र कविः को वा प्रयुञ्जोतैवमादिकम् ॥ १३० ॥

इदमनन्तरोक्तमपार्थमभिधानं वचनम् अस्वस्थं चित्तमन्तः[करणं] येषामित्यस्वस्थचित्तानां मत्तोन्मत्तादीनां [अभिधानमनिन्दितं] स्यात् । अन्यत्र तु निन्दितम् । अथवा इतर[त्र] स्वस्थेषु विषये तत्कर्तृत्वकल्पनात् । एवमिदमनन्तरोक्तमपार्थमादिर्यस्य दशदाडिमादेस्तदेवमादिकमसम्बद्धं [वाक्यजातं] को नाम कविरकुशलोऽपि, प्रागेव निपुणः । प्रयुञ्जीत रचयेत् ? नैव [कश्चित् प्रयुङ्क्ते ] । मूलहानेरतिस्थूलत्वाच्च नात्र भ्रान्तिः सम्भाव्य[त] इति भावः । वाक्यविकारत्वात् तु इदमपि कथञ्चित् काव्ये सम्भवेदिति सम्भवमात्रकल्पनया स्वस्थेष्वपि दर्शितमिति ॥