256
एकवाक्ये प्रबन्धे वा पूर्वापरपराहतम् ।
विरुद्धार्थतया व्यर्थमिति दोषेषु पठ्यते ॥ १३१ ॥

एकं च तद् वाक्यं च इत्येकं वाक्यं पद्यात्मकं गद्य[मयं] वा [तत्र] प्रबन्धे वा सर्गबन्धादिके यत्र क्वचिदादौ मध्ये अन्ते वा पूर्वापराभ्यां पराहतं पूर्वापरविरुद्धं वचनं व्यर्थमिति व्यर्थं नाम पठ्यते ज्ञायते अत्र दोषेषु प्रकरणात् काव्यसम्बद्धेषु मध्ये । अयमपि काव्यदोष इति यावत् । कुतः ? विरुद्धः प्रतिषिद्धः अर्थोऽभिधेयम् यस्मिन् तस्य भावः । तया हेतुभूतया । न तु विगतार्थतया, अपार्थमित्येव तस्य संग्रहादिति ॥

जहि शत्रुकुलं कृत्स्नं जय विश्वम्भरामिमाम् ।
न हि ते कोऽपि विद्वेष्टा सर्वभूतानुकम्पिनः ॥ १३२ ॥

शत्रूणां कुलं कृत्स्नं सर्वं जहि नाशय राजन् ! ततो निःसपत्नं विश्वम्भरां महीमिमां जय आत्मसात् कुरु । ते तव कोऽपि कश्चिद् विद्वेष्टा शत्रुर्न विद्यते । कुतः सर्वभूतानुकम्पिनः सर्वभूतहितैषित्वात् । अन्तर्भावितहेत्वर्थं विशेषणमिदम् । अत्र शत्रुः पूर्वं विहित एव पश्चात् तत्पर्यायेण निषिद्धः । पूर्वापराहतमीदृशं व्यर्थमेकवाक्यविषयमवगन्तव्यम् । प्रबन्धविषयं तु तत्र संभवेदिति ॥

अस्यापवादं दर्शयन्नाह—

अस्ति काचिदवस्था सा साभिषङ्गस्य चेतसः ।
यस्यां भवेदभिमता विरुद्धार्थापि भारती ॥ १३३ ॥

यस्यामवस्थायां वक्तुः सम्बन्धिन्यां विषये । विरुद्धोऽर्थो यस्यामिति विरुद्धार्था पूर्वापराहताभिधेया अपि, न केवलमितरा । भारती वचनम् अभिमता अदुष्टा । तदा तथोचितत्वात् । चेतसः तादृशी क्वचित् समवस्था दशा अस्तिं विद्यते । कस्य ? सहाभिषङ्गेण [आसक्त्या] क्वचिद् विषये स्त्र्यादौ वर्तते इति साभिषङ्गस्य अतिरक्तचेतसः सम्बन्धिनी कुतश्चित् मनोवस्थाविशेषाद् व्यर्थमप्यनिन्द्यमित्यर्थः ॥