तदुदाहरति—

परदाराभिलाषो मे कथमार्यस्य युज्यते ।
पिबामि तरलं तस्याः कदा नु दशनच्छदम् ॥ १३४ ॥

परम्य दारेषु कलत्रे । अभिलाषः सङ्गमेच्छा । लोकशा[स्त्रविरुद्धो]ऽयं 115a मे ममार्यस्य न्यायव्य[व]हारिणः सतः कथं नाम युज्यते संगच्छते ? नैवायं मम युज्यत इत्यर्थः । इत्थं कथञ्चित् प्रतिसंख्यानात् लब्धस्य विवेकस्य विपर्ययः पुनरभिषङ्गपरवशोऽनुपतितः । तस्याः परयोषितः कस्या[श]चिदिष्टाया दशनच्छदमधरं तरलमुज्ज्वलं कदा नु पिबामि ? कतरत् तादृशं पुण्यदिनं भवेत् ! नु प्रार्थनायाम् । ईदृशं पूर्वापराहतमपिं अत्यासक्त्याद्यवस्थानुगृहीतं न दुष्यति, तादृशस्यैव तदोचितत्वादिति ॥