उत्कामुन्मनयन्त्येते बालां तदलकत्विषः ।
अम्भोधरास्तडित्वन्तो गम्भीराः स्तनयित्नवः ॥ १३६ ॥

बालां स्त्रियं काञ्चित् । उत्काम् उत्कण्ठिताम् । उन्मनयन्ति उत्कण्ठयन्ति । उत्कण्ठतामात्रापेक्षायाम् इदमेकार्थम्, विशेषापेक्षा[राहित्ये]नेति द्रष्टव्यम् । एते प्रत्यक्ष258 वातनः । तस्या बालाया अलकानामिव त्विट् प्रभा येषामिति तदलकत्विषः । अम्भोधरास्तडित्वन्त इति अन्यतरेण मेघमात्रप्रतिपादनादेकार्थम् । रूपविशेषविवक्षायां तु अनेकार्थत्वं स्यात् । यथाह भारविः—

बिभ्राणमानीलरुचं पिशङ्गी—र्जटास्तडित्त्वन्तमिवाम्बुवाहम् ।
143 इति । गम्भीराः स्तनयित्नव इत्येकेनैव स्तननयोग्यस्य प्रतिपादनादुभयमेवार्थमविशेषविवक्षायामिति ॥

  1. किरातार्जुनीये ३. १