115a मे ममार्यस्य न्यायव्य[व]हारिणः सतः कथं नाम युज्यते संगच्छते ? नैवायं मम युज्यत इत्यर्थः । इत्थं कथञ्चित् प्रतिसंख्यानात् लब्धस्य विवेकस्य विपर्ययः पुनरभिषङ्गपरवशोऽनुपतितः । तस्याः परयोषितः कस्या[श]चिदिष्टाया दशनच्छदमधरं तरलमुज्ज्वलं कदा नु पिबामि ? कतरत् तादृशं पुण्यदिनं भवेत् ! नु प्रार्थनायाम् । ईदृशं पूर्वापराहतमपिं अत्यासक्त्याद्यवस्थानुगृहीतं न दुष्यति, तादृशस्यैव तदोचितत्वादिति ॥

अविशेषेण पूर्वोक्तं यदि भूयोऽपि कीर्त्यते ।
अर्थतः शब्दतो वापि तदेकार्थं मतं यथा ॥ १३५ ॥

पूर्वोक्तं प्रथमं प्रयुक्तं शब्दार्थरूपं किञ्चित् भूयः पुनरपि यदि कथञ्चित् प्रमादात् कीर्त्यते प्रयुज्यते । कथम् ? अविशेषेण पूर्वोक्तमप्यर्थविशेषमनपेक्ष्य तावत्येवार्थे । यदि तु विशेषापेक्षा स्यात्, तदा नैकार्थमिति भावः । तदीदृशमेकार्थम् । अतः एकः पूर्वापरकालभाव्यर्थः अविशिष्टः अस्मिन्निति कृत्वा । कथम् ? अर्थतः अभिधेयेन पूर्वप्रतिपादितस्यैवार्थस्य अविशेषेण पुनः प्रतिपादनात् । शब्दतो वाचकेन वा हेतुना तावत्येव चार्थे पुनः शब्दप्रयोगात् । न पुनरर्थपौनरुक्त्यमनपेक्ष्य शब्दपौनरुक्त्यं स्वतन्त्रं दर्शयितुं शक्यम्, अर्थ[तो भिन्नस्य] एव शब्दस्य यमकादौ अपुनरुक्तेः । यत्र त्वर्थाभेदः तत्र तद्द्वारकं शब्दपौनरुक्त्यम् । अपीत्युभयथा दर्शितम् । यथेत्युदाहरति ॥

उत्कामुन्मनयन्त्येते बालां तदलकत्विषः ।
अम्भोधरास्तडित्वन्तो गम्भीराः स्तनयित्नवः ॥ १३६ ॥

बालां स्त्रियं काञ्चित् । उत्काम् उत्कण्ठिताम् । उन्मनयन्ति उत्कण्ठयन्ति । उत्कण्ठतामात्रापेक्षायाम् इदमेकार्थम्, विशेषापेक्षा[राहित्ये]नेति द्रष्टव्यम् । एते प्रत्यक्ष