258 वातनः । तस्या बालाया अलकानामिव त्विट् प्रभा येषामिति तदलकत्विषः । अम्भोधरास्तडित्वन्त इति अन्यतरेण मेघमात्रप्रतिपादनादेकार्थम् । रूपविशेषविवक्षायां तु अनेकार्थत्वं स्यात् । यथाह भारविः—

बिभ्राणमानीलरुचं पिशङ्गी—र्जटास्तडित्त्वन्तमिवाम्बुवाहम् ।
143 इति । गम्भीराः स्तनयित्नव इत्येकेनैव स्तननयोग्यस्य प्रतिपादनादुभयमेवार्थमविशेषविवक्षायामिति ॥

अत्राप्यपवादं व्युत्पादयन्नाह—

अनुकम्पाद्यतिशयो यदि कश्चिद् विवक्ष्यते ।
न दोषः पुनरुक्तोऽपि प्रत्युतेयमलंकृतिः ॥ १३७ ॥

अनुकम्पा अनुक्रोश आदिर्यस्य विस्मयहर्षादेस्तस्य तद्रूपो वा अतिशयो विशेषः अनुकम्पाद्यतिशयः,

  1. किरातार्जुनीये ३. १