259

विस्मये च विषादे च कोपे दैन्ये च वारणे ।
प्रसादे चैव हर्षे च पदमेकं द्विरुच्यते ॥
144 इति ॥

निर्णयार्थं प्रयुक्तानि संशयं जनयन्ति चेत् ।
वचांसि दोष एवासौ ससंशय इति स्मृतः ॥ १३९ ॥

वचांसि शब्दाः प्रयुक्तानि प्रकाशितानि । किमर्थम् ? निर्णयार्थम् । निर्णयो निश्चयः, प्रकरणात् काव्यार्थविषयः संशयविपर्यासविरोधी प्रत्ययः । अर्थः प्रजोजनम्, साध्यत्वाद् यस्मिन् प्रयोगे इति क्रियाविशेषणम् । तच्च स्वभावतो नपुंसकम् द्वितीयैकवचनान्तं च स्मर्यते । न तु संशयार्थम्, तदानीं दोषात् । यद् वक्ष्यति—ईदृशं संशयाय ३. १४१ इत्यादि । संशयनिश्चयविपर्ययमर्थद्वयावगाहि ज्ञानं यदि जनयन्ति, असौ तादृशः संशय इति ससंशयो नाम दोष एव काव्ये । न गुणोऽपि तत्र विषये । अन्यत्र तु भवेत् । स्मृतो विज्ञायते ॥

मनोरथप्रियालोकरसलोलेक्षणे सखि ।
आराद्वृत्तिरसौ माता न क्षमा द्रष्टुमीदृशम् ॥ १४० ॥

मनोरथस्य हृदयाभिलाषस्य प्रियो दयितः कश्चित् । तदेकालम्बनत्वात् तस्य आलोकनमालोकः । तत्र रसः । तेन लीले चपले ईक्षणे नेत्रे यस्या इति मनोरथप्रियालोकरसलीलेक्षणे सखीति सम्बोधनम् । यद् वा मनोरथप्रिय इष्टः । आलोकः प्रकाशो बाह्यः । तद्वदरसलोलेक्षणत्वं न संवृत्तम् [?] आत्मानमन्तस्तिष्ठन्तं नेच्छसि । किं तु यथेष्टं बहिरालोके भ्रमितुं वाच्छसीति अभिप्रायेण

  1. [