उद्देशानुगुणोऽर्थानामनुदेशो न चेत् कृतः ।
अपक्रमाभिधानं तं दोषमाचक्षते बुधाः ॥ १४४ ॥

अर्थानां यथोद्दिष्टानां केषाञ्चिदुद्देशः प्रथमोपक्षेपः तस्यानुगुणस्तत्र क्रमानुसारित्वात् अनुदेशः145 प्रत्याम्नायश्चेत् न कृतः स्यात् प्रमादात्, तादृशं विशेषमन्तरेणेति भावः । अपक्रम इति अभिधानं संज्ञा यस्येत्यपक्रमाभिधानम् । अपक्रमं नाम दोषं तं यथोक्तमाचक्षते कथयन्ति कवयः । यथेत्युदाहरति ॥

  1. अनुदिश्यत इत्यनुदेशः । पश्चादुच्चार्यत इत्यर्यः । पाणिनीयकाशिकायाम् १.३.१०