261 युवानं कञ्चित् कामेन आकुलीकर्तुं विधुरयितुम् । ततश्च संशय एवात्राभिधेयत्वादलङ्कारः ॥

उद्देशानुगुणोऽर्थानामनुदेशो न चेत् कृतः ।
अपक्रमाभिधानं तं दोषमाचक्षते बुधाः ॥ १४४ ॥

अर्थानां यथोद्दिष्टानां केषाञ्चिदुद्देशः प्रथमोपक्षेपः तस्यानुगुणस्तत्र क्रमानुसारित्वात् अनुदेशः145 प्रत्याम्नायश्चेत् न कृतः स्यात् प्रमादात्, तादृशं विशेषमन्तरेणेति भावः । अपक्रम इति अभिधानं संज्ञा यस्येत्यपक्रमाभिधानम् । अपक्रमं नाम दोषं तं यथोक्तमाचक्षते कथयन्ति कवयः । यथेत्युदाहरति ॥

स्थितिनिर्माणसंहारहेतवो जगतामजाः ।
शम्भुनारायणाम्भोजयोनयः पालयन्तु वः ॥ १४५ ॥

जगतां लोकानां स्थितिः प्रबन्धानुवृत्तिः । निर्माणमुत्पादः । संहारो नाशस्तेषां हेतवः, तत्कर्तृत्वात् न जाता अकृतका इत्यजाः नित्याः । के ते ? शम्भुश्च शङ्करः, नारायणश्च विष्णुः । अम्भोजयोनिश्च ब्रह्मा । शम्भुनारायणाम्भोजयोनयः । वो युष्मान् पालयन्तु रक्षन्तु । अत्र जगतां स्थितिहेतुर्नारायणः, निर्माणहेतुरम्भोजयोनिः संहारहेतुः शम्भुरित्यागमात् न यथोद्देशमनुदेशः कृत इत्यपक्रमनामायं काव्यदोष इति ॥

अत्राप्यपवादमभिधत्ते—

यत्नः सम्बन्धविज्ञानहेतुः कोऽपि कृतो यदि ।
क्रमलङ्घनमप्याहुर्न दोषं सूरयो यथा ॥ १४६ ॥

यत्नेन प्रतियत्नेन यथावस्थानातिक्रमेणान्यथा सम्बन्धयोजनमनुदेशः तस्य विज्ञानमवगमः । तस्य हेतुः कारणं कोऽपि कश्चित् तादृशः येन तत्र सम्बन्धो विज्ञायते । न यथोद्देशम् । यदि कृतः स्याद् यत्नः । सम्बन्धनिर्ज्ञानहेतुरित्यपि पठ्यते । तत्र सम्बन्धस्यायथोद्देशमनुदेशस्य निर्ज्ञाने हेतुः कारणभूतो यदि यत्नः कोऽपि

  1. अनुदिश्यत इत्यनुदेशः । पश्चादुच्चार्यत इत्यर्यः । पाणिनीयकाशिकायाम् १.३.१०