262 कृतः स्यादिति व्याख्येयम् । तदा क्रमस्य यथोद्देशमनुदेशस्य लङ्घनमतिक्रममपि न केवलमलङ्घनम् । न दोषमाहुः स्मरन्ति सूरयः कवयः । यथेत्युदाहरति ॥

बन्धुत्यागस्तनुत्यागो देशत्याग इति त्रिषु ।
आद्यन्तावायतक्लेशौ मध्यमः क्षणिकज्वरः ॥ १४७ ॥

बन्धूनां त्यागो विरहो विरहो बन्धुत्यागः । तनोः शरीरस्य त्यागो मरणम् । देशस्य आत्मीयस्य त्यागो देशत्याग इति त्रिषु एतेषु बन्धुत्यागादिषु दुःखेषु । आदिश्चान्तश्च इत्याद्यन्तौ