117a बन्धुत्यागदेशत्यागौ आयतौ दीर्घौ च तौ क्लेशौ संबाधौ । आयतो क्लेशो दुःखमनयोरित्यायतक्लेशौ यावज्जीवमनुबन्धात् । मध्यमस्तनुत्यागः क्षणिकः क्षणमात्रभावी चासौ ज्वरस्तापश्चेति क्षणिकज्वरः शरीराभावे नानुबन्धात् । अत्रायतक्लेशत्वं बन्धुत्यागदेशत्यागयोः । एवं न तनुत्यागस्य । क्षणिकज्वरत्वं च तनुत्यागस्यैव नेतरयोरिति यत्नसम्बन्धः । सम्बन्धनिर्ज्ञातहेतुरीदृशो द्रष्टव्यः । यदि पुनः त्रयाणामप्येकरूपत्वं तदा क्रमलङ्घनं दोष एव स्यात्, विशेषस्य तादृशस्याभावादिति ॥

शब्दहीनमनालक्ष्यलक्ष्यलक्षणपद्धतिः ।
पदप्रयोगोऽशिष्टेष्टः शिष्टेष्टस्तु न दुष्यति ॥ १४८ ॥

पदस्य सुबन्तस्य तिङन्तस्य वा प्रयोगो व्यवहारः पदप्रयोगः, लक्ष्यते [यत्] तदिति लक्ष्यमुदाहरणम् । लक्षणं शब्दशासनम्, लक्ष्यते अनेन शब्दरूपमिति कृत्वा । तयोः ते एव वा पद्धतिः मार्गः, ततो व्यवहारप्रवृत्तेः । अनालक्ष्या अदृश्या, अभावात् । लक्ष्यलक्षणपद्धतिर्यस्मिन् स तादृश अशिष्टैरनाप्तैः स्वीकृतः । इत्यनूद्य शब्दहीनं तद्विज्ञेयमिति विधीयते । यः पुनरेवंभूतोऽपि पदप्रयोगः शिष्टैरिष्यते शास्त्रे काव्ये वा, क्वचित् प्रयुक्तत्वात् । स शिष्टैः शास्त्रकारैस्तत्प्रज्ञैर्वा इष्टस्तु आप्तप्रयुक्तः पुनः न दुष्यति, तेषां सर्वथेह प्रमाणत्वात् । अनन्तो हि शब्दराशिः । तत्र कश्चिच्छब्दः शब्दानुशासनाद् गृह्यते । कश्चिदाप्तप्रयोगात् तत्कल्पात् । शब्दानुशासनमपि आप्तोपदेश इति न कश्चिदनयोर्विशेषः अत एवोक्तम् — शिष्टेष्टस्तु न दुष्यतीति ॥

तदुदाहरति—

अवते भवते बाहुर्महीमर्णवशक्वरीम् ।
महाराजन्नजिज्ञासौ नास्तीत्यासां गिरां रसः ॥ १४९ ॥