क्वचिदशब्दहीनेऽपि शब्दहीनभ्रान्तिरिति व्युत्पादयन्नाह—

दक्षिणाद्रेरुपसरन् मारुतश्चूतपादपान् ।
कुरुते ललिताधूतप्रवालाङ्कुरशोभिनः ॥ १५० ॥

दक्षिणाद्रेर्मलयपर्वतादुपसरन आगच्छन मारुतः चूतपादपान् सहकारतरून् ललितं सलीलमाधूतैराकम्पितैः प्रवालैरङ्कुरैः पल्लवोद्गमैः शोभन्ते इति ललिताधूतप्रवालाङ्कुरशोभिनः । स तत् कुरुते विधत्ते । अत्र किल दक्षिणाद्रेरुपसरणे भावात् पञ्चमी न युज्यते, अपायलक्षणत्वात् तस्याः । उपसरणापेक्षया त्वाधारेण व्याप्येन वा दक्षिणानिलेन भाव्यम् । ततश्च सप्तमी द्वितीया वा युज्यते । नैवं कृतम् । अतः शब्दहीनमेवंविधमिति कुधियो मन्यन्ते । न चैतदेवम् । उपसरणं हि तत आगमनमिति विश्लेषयोगाद् दक्षिणाद्रिमामृश्योपसर[त्ययमि]ति ल्यब्लोपलक्षणा पञ्चम्येव युज्यते ॥