33 च्छानामत्यन्तप्रसन्नानां निर्भ्फराणां प्रश्रवणानामम्भस उदकस्य कणैः बिन्दुभिरुक्षितः सिक्तः शीतः मलयानिलो दक्षिणमारुतः मामेति [मा]मुपसर्पतीति योज्यम् । एतद्द्वये मृदुस्फुटविजातीयवर्णसङ्कराद् विषमम् । एतदेव च [वि]जातीयबन्धपूरितमर्द्धद्वयं केवलमृदुबन्धं केवलस्फुटबन्धं च श्लोकद्वितयं भवत् समोदाहरणं सम्पद्यते । तद्यथा—

कोकिलालापवाचालो मामेति मलयानिलः ।
आज्ञामुद्दामकामस्य कालस्य कथयन्निव ॥
बिभर्त्ति भ्रान्तिमुद्भूतो भ्रमराणां प्रभञ्जनः ।
उच्छलच्छीकराच्छाच्छनिर्भ्फराम्भःकणोक्षितः ॥
[कारणेना][ने]नैवार्येण दण्डिना पृथङ् नोदाहृतम् ॥