20a यत्तर्हि पादे विजातीयवत्त्वं संकीर्णं तदविषममिति कश्चित् मन्यते तन्निषेधार्थं पादमात्रेणापि विषममुदाहरन्नाह—

चन्दनप्रणयोद्गन्धिर्मन्दो मलयमारुतः ।
स्पर्धते रुद्धमद्धैर्यो वररामामुखानिलैः ॥ ४९ ॥

चन्दनानां तरूणां प्रणयः परिचयः सादेश्यात् । ततस्तेनोद्गन्धिः उद्गतो गन्धोऽस्येति चन्दनगन्वगर्भः सुरभिः शिशिरोऽपि वा । निरस्तं समाधिंनिर्विकारत्वं येनोपनीतमन्मथविकारत्वात् स मन्दो मृदुर्मलयमारुतो दक्षिणपवनः । [वररामामुखानिलै]रुत्तमस्त्रीवदनश्वसनैः सह स्पर्द्धते [तान्] निगृह्णाति सुरभितया मृदुत्वेन [रुद्ध]मद्धैर्यतया च साम्यात् । स्पर्द्धायाश्च समानविषयत्वात् तैरुपमीयत इति यावत् । अत्र तृतीयपादेन स्फुटत्वेन विजातीयेन मध्यमबन्धं पादत्रयं संसृष्टमिति विषममेवेदृशम् । एतदेव सजातीयैकपादप्रवेशे समं जायते । तद्यथा—

चन्दनप्रणयोद्गन्धिर्मन्दो मलयमारुतः ।
स्पर्धते मन्मथक्षीबवररामामुखानिलैः ॥ इति ।

तदेतद् गौडीयं निगमयन्नाह—

इत्यनालोच्य वैषम्यमर्थालङ्कारडम्बरौ ।
अवेक्षमाणा ववृते पौरस्त्या काव्यपद्धतिः ॥ ५० ॥