34 इतीदृशं वैषम्यमसाम्यं विजातीयबन्धसंकरलक्षणम् अनालोच्य अदृष्ट्वाअस्वीकृत्येति यावत् । काव्यपद्धतिः काव्यरचना ववृते प्रवर्त्तते । कालस्येहानन्तत्वादद्यापि प्रवृत्तेः । कतमा पौरस्त्या । पुरः शब्देन पूर्वस्यां दिशि देशे वा व्यवस्थितो जन उक्तः । तस्मात्तत्र भवा [पौरस्त्या] । गौडीयेति यावत् । बन्धविषममेवंविधं काव्यं गौड़ाः कुर्वन्ति । न दाक्षिणात्या इत्यर्थः । कस्तर्हित्वया काव्यपक्षः स्वीकृतो येन काव्यपद्धतिरिति यदुच्यत इति चेदाह—अर्थालङ्कारो जात्यादि