20b लक्षणः डम्बरोऽक्षरडम्बरः । 'गौडेष्वक्षरडम्बर' इति । तावुभौ [अवेक्ष]माणा स्वीकुर्वती ववृते इति प्रकृतम् । द्वयमेतत् गौडवर्त्मनि दृश्यते । शब्दालङ्कारस्तु बन्धसाम्यलक्षणो नेक्षत इत्यर्थः । एते च बन्धास्त्रयोऽपि यथावसरं विनियुक्ताः शोभामा[त]न्वन्तीति दाक्षिणात्यैरिष्यत एव ।

केचित्तु व्याचक्षते—उन्मिश्र एकैको बन्धो दाक्षिणात्यैरिष्यते । न तु मृदुः स्फुटश्च शैथिल्यकृच्छ्रोद्यत्वाभ्यां दुष्टत्वादिति । तदसत्, मृदुबन्धस्याप्यशिथिलस्य स्फुटबन्धस्यापि वा कृच्छ्रोद्यस्य रघुवंशजातकमालादौ दाक्षिणात्यमहाकविकाव्येषु दर्शनात् । तद्यथा—

ताम्बूलवल्लीपरिणद्धपूगास्वेलालतालि[ङ्गि]तचन्दनासु ।
तमालपत्रास्तर[णा]सु रन्तुं कच्चिन्मनस्ते मलयस्थलीषु ॥
50
समीक्ष्यमाणक्षतजः क्षितीशः क्षपाचरैर्हेमवपुश्चकाशे ।
सन्ध्याभिताम्रैर्जलभारनम्रैः पयोधरैर्मेरुरिवोपगूढः ॥ इति ।
51

एतच्च दण्डिनाप्यत्यन्तसंराधितमिति श्रूयते । अपि च कियदिह वक्तुं शक्यते । सर्वमेव हि वैदर्भकाव्यं बन्धत्रयात्मकमुपलभ्यते । तदनेन व्याख्यानेन अवैदर्भः प्रसज्येत । नचैवम् । दृष्टविरोधात् । तदन[व]गाहितग्रन्थकाराभिप्रायस्यैतत् व्याख्या[न]मिति प्रतीमः । तस्मात्त्रयोऽपि बन्धा यथावसरमिष्यन्ते दाक्षिणात्यैः, बन्धवै[ष]म्यमेव तु तैर्बहु मन्यते ।

यत्पुनः—बन्धशैथिल्यदोषस्तु दर्शितः स[र्व]कोमल इति ।52

  1. रघुवंशे ६. ६४
  2. जातकमालायाम् ८.४१
  3. १.६९