21a गतम् । तस्मात् त्रयोऽपि बन्धा दाक्षिणात्यैरिष्यन्ते, बन्धवैषम्यं तु नेष्टमिति ॥

माधुर्यं निर्दिशन्नाह—

मधुरं रसवद्वाचि वस्तुन्यपि रसः स्थितः ।
येन माद्यन्ति धीमन्तो मधुनेव मधुव्रताः ॥ ५१ ॥

यत्काव्यं रसवत्सरसमित्यनूद्य मधुरमिति विधीयते । क्व पुनरसौ वर्त्तते येन युक्तं मधुरं स्यात् । शब्देऽर्थे च । प्रकर[ण]सम्भवादिति दर्शयन्नाह—वाचीत्यादि । [वाचि] शब्दे [वस्तुनि अ]र्थे च । रसः स्थितः तिष्ठति । उभयं रसवत् मधुरमित्यर्थः । किं तेनेति चेदाह—येनेत्यादि । येन रसेन येन रसवता काव्येन आस्वादितेन हेतुना माद्यन्ति प्रीतिविशेषं निर्विशन्ति धीमन्तः कवयो रसज्ञाः । कथमित्याह—मधुनेत्यादि । मधुना कुसुमासवेन मधुव्रता भ्रमरा इव । मधु व्रतं भोजनं येषामिति । यथा मधुनात्यन्तं प्रीयन्ते मधुलिहः तथा कवयस्तादृशेन काव्येनेत्यर्थः ॥

न ज्ञायते कीदृशोऽसौ इति विशेषेण दर्शयन्नाह—

यया कयापि श्रुत्या यत् समानमनुभूयते ।
तद्रूपादिपदासत्तिः सानुप्रासा रसावहा ॥ ५२ ॥

यत् पदं समानं सदृशं पदान्तरेणानुभूयते श्रूयते । किं वर्णावृत्या नेत्याह—यया कयापि श्रुत्येति । येन केनचित् [का]रणेन पदावयवभूतेन यथाकथञ्चित् स्थानमात्रासंयोगादिकृतसाम्येन लक्षितं सत् तद्रूपस्तथाविधः सदृशपदलक्षण आदिरुत्तरोत्तरविजातीयपदापेक्षया येषां पदानां तानि तद्रूपादीनि पदानि तद्वा रूपं शब्दरूपं समानं पदमादिरादिरुत्तरोत्तरापेक्षया पूर्वं येषामिति विग्रहः । तेषामासत्तिरासन्नता यथाकथञ्चित् समानश्रुतीनां पदानामासन्नता रसमावहति श्रुतिसुभगतामातनोतीति रसावहा भवति । यथाकथञ्चित् समानश्रुतीनि पदानि