36 शब्दरसः दाक्षिणात्यैरत्यन्तमिष्यते । अनुप्रासोऽपि शब्दरसोऽस्ति, स किं दाक्षिणात्यैर्नेष्यते । सोऽपीष्यत इत्याह-सानुप्रासेति । अनुप्रासस्य लक्षणं वक्ष्यति । सह तेन वर्त्तते सानुप्रासा, रसावहा [इत्यने]नावधार्यते । समानश्रुतेरेव रसावहेति । अनुप्रासोऽपि च रसमावहति । ततश्च शब्दरसो द्विविधो दर्शितो भवति । समानपदासत्तिरनुप्रासश्च । अनयोश्च न सहभावनियमः । यथासम्भवं क्वचित् काव्ये समानपदासत्तिः । क्वचिदनुप्रासः । क्वचिदुभयाम् । द्वयेन तु रहितं विरसं काव्यं न स्वाद्यते क विभिरितीदृशं माधुर्यं द्विविधं प्रतिपत्तव्यम् ॥

समानपदासत्तिमुदाहरन्नाह—

एष राजा यथा लक्ष्मीं प्राप्तवान् ब्राह्मणप्रियः ।
तदाप्रभृति धर्मस्य लोकेऽस्मिन्नुत्सवोऽभवत् ॥ ५३ ॥

कञ्चित् राजानमुद्दिश्योच्यते । एष राजा अयं नृपः यथा यतः प्रभृति राज्यलक्ष्मीं प्राप्तवान् नराधिपतामधिगतः, तदा प्रभृति तत आरभ्य धर्मस्य श्रुतिस्मृतिविहितस्य सनातनस्य वर्णाश्रमाचारमार्गस्य लोकयात्राया उत्सवोऽभ्युदयो निर्विशङ्का प्रवृत्तिरभवत् । लोकेऽस्मिन् अत्र वर्णाश्रमलक्षणे जगति । कुतः ब्राह्मणप्रियो यतः । ब्राह्मणाः प्रिया अस्येति । ब्राह्मणप्रियो हि तद्वचनानुवर्त्ती शास्त्रविहितं [धर्मं] प्रवर्त्तयतीत्यर्थः । क्वचिदिह दीर्घकृतं सादृश्यं क्वचित् स्थानकृतं क्वचित् संयोगकृतं क्वचित् कथाञ्चिदित्यनुव चनगम्यमेतत् । अत एवाह—यया कयापि श्रुत्या यत्समा