37 तेषामिदमविदितमिति यावत् । नीरसं तर्हि तेषां काव्यमिति चेदाह—अनुप्रासस्तु तत्प्रिय इति । तेषां गौडानां प्रियो बहुमान्यः । विदितानुप्रास[स्य] तु अनुप्रास एव शब्दरसः । दाक्षिणात्यानां तु समानपदासत्तिलक्षणः शब्दरसः प्रेयानित्याह—अनुप्रासादपीत्यादि । अनुप्रासादप्यधिकमिदं समानपदासत्तिलक्षणं माधुर्यमीप्सितमिष्टं वैदर्भैर्दाक्षिणात्यैः प्रायो बाहुल्येन तत्प्रयोगात् । ततश्च अनुप्रासोऽपि तैरिष्यत इत्युक्तं भवति । न तु तथासौ प्रियस्तेषां यथा समानपदासत्तिः । तादृशं हि माधुर्यं व्यापकं सर्वत्र सम्भवात् । अनुप्रासस्तु न तथा व्यापकः क्वचिद् दर्शनात् । अत एव प्राय इदमीप्सितमित्युक्तम् । शब्दरसस्तूभयमपि । द्वयेन तु हीनं नीरसं नास्वाद्यते कविभिरिति ॥

कः पुनरसावनुप्रासो यो गौडानां प्रियः? दाक्षिणात्यानां चेत्यवसरप्राप्तमनुप्रासं लक्षणतो लक्ष्यतश्च दर्शयन्नाह—

वर्णावृत्तिरनुप्रासः पादेषु च पदेषु च ।
पूर्वानुभवसंस्कारबोधनी यद्यदूरता ॥ ५५ ॥

वर्णस्य स्वरव्यञ्जनलक्षणस्य आवृत्तिः पुनःपुनरुच्चारणम् इत्यनूद्यानुप्रासो वेदितव्य इति विघीयते । प्रथमस्तस्य प्रथमप्रयुक्तस्याक्षरस्य