22b अनु पश्चादास उपक्षेपः प्रयोगः अनुप्रासः । क्वासौ सम्भवीत्याह—पादेष्वित्यादि । पादेषु पर्वापेक्षया पदेषु चेत्येतत्तु गद्यापेक्षया द्रष्टव्यम् । द्वयोरपि काव्यतयाधिकारात् । यद्वक्ष्यति—एतद् गद्यस्य जीवितमिति ।55

अनुष्टुबादौ बृहति च वृत्ते गद्ये च सर्वत्र सन्निकर्षतो द्रष्टव्यः यतः प्रत्यासन्नतयाऽनुप्रासो गृह्येत । यदाह—पूर्वानुभवेत्यादि । पूर्वस्य पूर्वप्रयुक्तस्य वर्णस्य अनुभवः श्रोत्रेण ग्रहणं पूर्वो वा पूर्वप्रयुक्तवर्णविषयत्वात् तस्य सम्बन्धी तदन्वितत्त्वात् । पूर्वानुभवेनाहितः संस्कारः पूर्वानुभवसंस्कार इति वा मध्यपदलोपी समास एव । वर्णः तज्जातीय इति वा एकाकारस्मार्त्तविकल्पजननशक्तिलक्षणः । तस्य बोधनी प्रबोधिका स्वानुरूपविकल्पोत्पादनाभिमुख्यकारिणी अदूरता प्रत्यासन्नता पुनस्तद्वर्णानुभवस्वभावा यदि भवति तदा वर्णावृत्तिरनुप्रासः पादेषु पदेषु च सम्पत्स्यते । अन्यथा तथाविधानुभवसंस्कारप्रबोधाभावात्तादृशविकल्पानुदयात् अनुप्रासो न

  1. १.८०