39
इत्यनुप्रासमिच्छन्ति नातिदूरान्तरश्रुतिम् ।
न तु रामामुखाम्भोजसदृशश्चन्द्रमा इति ॥ ५८ ॥

इत्येवंरूपमनन्तरोक्तप्रकारं नातिदूरान्तरश्रुतिमनतिविप्रकृष्टव्यवधानश्रवणम् । यावता पूर्वानुभवसंस्कारप्रबोधः प्रभवति तावदन्तरश्रुतिमनुप्रासमिच्छन्ति । सामान्यवचनादुभयेऽपि ।