24a युञ्जत इत्यर्थादुक्तं भवति । ततश्चानुप्रासेऽपि वैदर्भगौडीययोरस्ति कथञ्चिद्विशेष इति ॥

अनुप्रासविशेषत्वात्तत्प्रसङ्गेन यमकं भञ्जयन्नाह—

आवृत्तिमेव संघातगोचरां यमकं विदुः ।
तत्तु नैकान्तमधुरमतः पश्चाद् विधास्यते ॥ ६१ ॥

वर्णावृत्तिमेव नान्यत् यमकं विदुः विदन्ति कथयन्ति तज्ज्ञाः इति परमुखेन । तद्विदग्धोचितेयं वाचोयुक्तिरिति सर्वत्रानुसरत्वेनाम् । कोऽनयोर्भेद इत्याह—संघातगोचरामिति । अयमनयोर्भेदः । एकवर्णविषयावृत्तिरनुप्रासः । अनेकवर्णविषया तु यमकमिति । संघातः वर्णसमुदायो गोचरो विषयो यस्या इति विग्रह[ः/?/] । तत् किं नोच्यते इत्याह—तत्त्वित्यादि । तत्तु यमकम् । तुशब्दोऽर्थान्तरविवक्षायाम् । एकान्तेन साकल्येन सर्वेण, मधुरं च सर्वं न भवति, प्रायो गूढ़ार्थत्वेन अप्रसन्नत्वात् । तत्तु मधुरमेव यत्प्रसन्नम् । समानश्रुत्यनुप्रासयोस्त्वेकान्तमधुरता सर्वथा प्रसन्नत्वात् । एकान्तमधुरं चात्र प्रस्तुतम् । अतः नैकान्तमधुरत्त्वात् पश्चाद् दुष्करे विधास्यते प्रतिपादयिष्यते । प्रभेदतो लक्षणतस्तूक्तमेवेति ॥

यदुक्तं वाचि वस्तुन्यपि रसः स्थित58 इति तत्रेयता वाचि रसो दर्शितः । सम्प्रति वस्तुनि रसं विवरीतुमुपक्रमते—

कामं सर्वोऽप्यलंकारो रसमर्थे निषिञ्चति ।
तथाप्यग्राम्यतैवैनं भारं वहति भूयसा ॥ ६२ ॥

काममित्यभ्युपगमे यदि नामेत्यर्थः । अलङ्कारोऽर्थालङ्कारः जात्यादिप्रभेदः सर्वोऽपि नैक एव कश्चित् अर्थे वस्तुनि रसं माधुर्यं निषिञ्चति आवहति । तथापि एवमपि इति विशेषविवक्षायां तां दर्शयति--अग्राम्यतेत्यादि । अग्राम्यतै

  1. १. ५१