41 अर्थस्य भूयसात्यर्थं व्यापकत्वात् एनं रसनिषेकलक्षणं भारं धुरं वहति धत्ते नान्यत् । 59यद्यग्राम्यतैव रसस्तत् किं भेदो नोच्यते, सामान्यविशेषभावेन भेदसम्भवात् । रसो हि माधुर्यसामान्यम्, समानश्रुत्यनुप्रासाग्राम्यतादिसाधारणत्वेन [तस्य] प्रतीतेः । समानश्रुत्यादेस्तु विशेषाव्यावृत्तितयावगमात् । अन्यदप्येवंजातीयकमुन्नेयम् । जात्याद्यर्थालङ्कारमुक्तमपि काव्यमग्राम्यार्थमेकान्तमधुरमित्यर्थः ॥

कीदृशी तावद् ग्राम्यता यद्विपर्ययोऽग्राम्यता वस्तुरसः स्यादिति ग्राम्यताप्रतिपक्षेण अग्राम्यतां दर्शयितुकामः ग्राम्यतां तावदुदाहरति—

कन्ये कामयमानं मां न त्वं कामयसे कथम् ।
इति ग्राम्योऽयमर्थात्मा वैरस्यायैव कल्पते ॥ ६३ ॥

कन्ये बाले त्वं कामयमानं सन्तं मां कथं किं न कामयसे नाभिलषसि । एवं नाम त्वं निष्ठुरेति । अयमेवंविधोऽर्थात्मा वस्तुरूपं ग्राम्यः अविदग्धोचितः । ततश्च वैरस्यायैव अमाधुर्यार्थमेव कल्पते सम्पद्यते न कथमपि रसवत्तायै । विरस एव तादृशोऽर्थ इति यावत् । वैरस्यं च न काव्योचितमिति नेदृशं कवयः स्पृ[श]न्तीत्याकूतम् ॥

कीदृशं तर्हि वस्तुरूपमग्राम्यम्, यद्रसावहमित्याह—

कामं कन्दर्पचण्डालो मयि वामाक्षि निष्ठुरः ।
त्बयि निर्मत्सरो दिष्ट्येत्यग्राम्योऽर्थो रसावहः ॥ ६४ ॥

वामाक्षि मञ्जुलोचने इति प्रियामन्त्रणम् । कन्दर्पः काम एव चण्डालः अकाण्डप्रहारित्वात् । मयि मद्विषये निष्ठुरः क्रूरं प्रहरतीत्यर्थः । कामं यदि नाम तथापि सानुग्रह एवास्माकं यत्त्वयि निर्मत्सरः निर्वैरः सानुक्रोशस्त्वां न बाधते । अत एवाहदिष्ट्येति आनन्दनिवेदनम् । अयमस्माकमानन्दो महान् यत्त्वयि न

  1. तत्त्व आदर्शे